साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 401, कुल 506 में से
संदर्भ में पढ़ें१०२ साहित्यदर्पणे
द्रागपगमकृताङ्गाङ्गानि सङ्कोचयन्त्यो
माध्यान्दिनार्किरुग्भिः कथमते नावापि विश्राम्यसि॥'
अथ शान्तः—
शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः॥ २४५ ॥
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ।
अनित्यतादिनाऽशेषवस्तुनिःसारता तु या ॥ २४६ ॥
परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ।
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥ २४७ ॥
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ।
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ।'॥ २४८ ॥
निर्वेदहर्षस्मरणमतिभूतदयादयः ।
यथा—
'रथ्यान्तश्चरतः पुरातनजरत्कन्थाप्लवस्याध्वगे
सत्रासं च सशङ्कितं च सदयं दृष्टस्य तैर्नागरैः ।
निर्व्याजीकृतचित्सुखामृतमुदा निद्रायमाणस्य मे
निःशङ्कं करटं कदा करपुटाभिक्षां विलुण्टिष्यति ॥'
पर्यस्त उक्षितः कपालसम्पुटः पिवानपात्राद्याकारः प्रासादपाशस्तस्य तेन द्राग् झटिति
मिलत्सङ्गच्छमानः वस्त्राण्डः एव भाण्डं मुद्रम् । स्मारं ग्राममन् आत्मारं
पिण्डितो बहुलाङ्गुष्ठशब्देऽमा महस्त्वं चम्पा । तच्चाग्र इदानीमपि । नराशौचसङ्गे
गत्यालामण्ये जायमानः शब्दो बहुला भवन्तो मन्त्रप्रणवपदम् । सा उद्धत्यमपि
विस्मयो वपुश्छत्रालम्बनेन तस्यातिदीर्घलक्षणोद्दीपनेन स्वान्पगुप्ता अनुभावत्वेन
व्यक्त्वाश्चर्यरसतामापद्यते ॥ शान्तरसमाह—शान्त इति । अत्र निर्वेदः
स्थायिभावः । एतत्पक्षे अनभिनवनीयतयैवालम्बनम् । विरागस्य व्यभिचारित्वेऽपि
स्थायित्वायोगात्, शमस्य स्थायित्वेनानुभूयमानत्वाच्च ग्रन्थकृता तदुपेक्षितम् ।
रोमाञ्चाद्या इत्याद्यपदेन दयादीनामपि ग्रहणम् ॥ रथ्यान्तरिति । कस्यचित्-
तन्निर्वेदस्योक्तिरियम् । रथ्या गृहमध्यौपदेशं, तन्मार्गे चरतो भिक्षार्थं भ्रमतः ।
अध्वगैर्नागरैश्च वाभ्रासतेपदर्शनेन त्रासः, अनुपादत्कन्थावधारणेन कातुरम् ।
दीनत्वेन दया । निर्व्याजीकृत-कामादिनाशेन निष्प्रतिबन्धीकृतो यश्चित्सुधारूप-
ज्ञानामृतस्य रस आस्वादस्तस्य मुदा तज्जन्यानन्देन निद्रायमाणस्य मुदितनेत्रस्य ।
१. उपेक्षितमिति । अत्र यद्वक्तव्यं तत् 'शमो निरीहावस्थायाम्' इत्यादि-
रित्या (१४४ पृ.) ॥