सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 390, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 390

तृतीयः परिच्छेदः। १८१
किंवात्राकाशसरस्वतीभाषानन्तरमेव शृङ्गारः, संगमप्रत्याशया रतेरु-
द्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । यच्चात्र 'संगम-
प्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव' इति
केचिदाहुः, तदन्ये 'मरणरूपविशेषसंभवाद्भिन्नमेव' इति मन्यन्ते ।
अथ संभोगः—
दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ २१० ॥
आदिशब्दादन्योन्याधरपानचुम्बनादयः । यथा—'शून्यं वासगृ-
हम्—' (२३ पृ.) इत्यादौ ।
संख्यातुमशक्यतया चुम्बनपरिरम्भणादिबहुभेदात् ।
अयमेक एव धीरैः कथितः संभोगशृङ्गारः ॥ २११ ॥
तत्र स्यादृतुषट्कं चन्द्रादित्यो तथोदयास्तमयः ।
जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥२१२॥
अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च ।
रसः, न पुनर्विप्रलम्भ इति भावः । अत्र विशेषमाह—किं चेति । निषेवेते
कुरुतः । एकगतस्यानुरागाभावे शृङ्गाराभास इति तद्वारणाय—अन्योन्यमिति ॥
शून्यमिति । व्याख्यातमेतत्प्राक् (२३ पृ.) एक एवप्रकारः । संभोगोद्दीपनवि-
भावानाह—तत्रेति । संभोग इत्यर्थः । स्याद् उपयुक्तं भवति । वाच्यं संभो-
गोद्दीपकत्तया वर्णनीयम् । शुचि मेध्यमलन्तं निर्मलम् । अन्यदन्यादि ॥ सङ्ख्यातुं

  1. अत्रेति । यत्र कादम्बर्यां चन्द्रापीडं प्रति स्वभेदेन पुण्डरीकव्यतिकरं वर्णयन्त्या
    महाश्वेताया वाग्येवमित्यर्थः । मिथुनयोर्द्वयोः जीवितावस्थानदशायां वैक्लव्यपोषिताया
    रतेरेव प्राधान्याद्विप्रलम्भः । वैक्लव्यं तु संचारिमात्रम् । मृत्यन्तरगतायां तु रत्यौपयि-
    कस्य दैवदस्यैव प्राधान्यमिति करुण एव । यदा तु मयति सत्यनष्टाने देवताप्रसादादिना
    पुनर्जीवनदानं नपचिव्यासस्तदाहल्याल्लब्धिनिमित्तनाभावादिप्रवास इव विप्र-
    लम्भ एव । न स करुण इति स्वद्वाः ॥
  2. केचिदिति । 'उत्पन्नयोस्तु प्रथमं रागः, संगमभवस्तन्मन्तव्यस्तदाऽयं प्रवास-
    शृङ्गार एवेति' रसामृतसिन्धौ ॥
    3 विलासिनाविति । विलासिनी च विलासी च विलासिनावित्येकशेषः ॥
    १ '—प्रत्याश' ग.प. २. तदन्ये क. ३ 'इति मन्यन्ते' इ.प. ४ 'तु' नास्ति इ.प.
    ५. '—कथिता' इ. 'कथितः' इत्यारभ्य 'प्रभृति' नास्त्येव ६. 'दैवपदस्य' गित्यारभ्य 'संसर्गेण-
    रित्यारभ्यतु' इति ग.
    साहि० १२