साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 389, कुल 506 में से
संदर्भ में पढ़ें१८० साहित्यदर्पणे
भूतो यथा—'चिन्ताभिः स्तिमितम्—' इत्यादि (१७८
शापाद्यथा—'तां जानीयाः—' इत्यादि (१२३ पृ.) १संभ्रमो द्वि
मानुषनिर्घातोत्पातादिजः । यथा—विक्रमोर्वश्यामुर्वशीपुरूरवसोः ।
अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनां
दशानामुभयेषामप्युभयत्र संभवेऽपि चिरंतनप्रसिद्ध्या विविच्य ३
पादनम् ।
अथ करुणविप्रलम्भः—
यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनरलभ्ये ।
विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्यः ॥२०
यथा कादम्बर्यां पुण्डरीकमहाश्वेतावृत्तान्ते ।
पुनरलभ्ये शरीरान्तरेण वा लभ्ये तु करुणाख्य एव रसः ।
अत्यन्तसखित्वमित्यत्र पृथक् प्रियसखित्वोपादानम् । प्रियतमगमने गन्तुमारभ्य
वलयादयः सख्योचित कर्म कुर्वन्ति । त्वमपि प्रियस्य सुहृद्भवसीति तत्रापि गमनं
न्याय्यमित्याह—गन्तव्ये सतीति । अत्रेयमुक्तिरनुभावः । अश्रुपातसन्तापव्यङ्गो
विषादो व्यभिचारिभावः । प्रियतम आलम्बनम् । नायिकाया रतिज्ञे सामाजिका
रसोत्पत्ति ॥ तां जानीया इति प्रोषितभर्तृकाया नायिकाया उदाहरणमिदम् ।
दिव्यो विद्युदुल्कादि । मानुषो मर्त्यलोकभवो भूकम्पादि । निर्घात इति
नामसोपलक्षणम् । उत्पातोऽनिष्टसूचको दैवकृत प्रकृतिविपर्यासः । आदिना
उन्मादादिपरिग्रहः । उर्वशीपुरूरवसोरिति । उर्वशी हि पुरा मित्रावरुणशा
पान्मर्त्यलोकं प्राप्य पुरूरवसो गृहे 'यदि भवन्तं सुरतसमयातिरिक्तसमये नग्नं
पश्यामि तदा त्वामहं त्यक्ष्यामि, मम मेषद्वय भवता रक्षणीयम्' इति नियमं कृत्वा
स्थिता । तदनन्तरं देवैरन्वतमसे मेषद्वयमपहृतम् । तच्छ्रुत्वा पुरुरवा ससंभ्रमेण
वस्त्रमपरिधायैव खड्गपाणिर्मेषापहर्तु पश्चाद्धावित । एतस्मिन्नन्तरे विद्युद्दीप्त्या
नग्नमवलोक्योर्वशी स्वर्ग गतेति ग्रन्थस्य वर्तुलार्थ । अत्र दैवकृतमेषापहरणरूप
दिव्योत्पातेन पुरूरवसः संभ्रम , तेनोर्वश्या भिन्नदेशवृत्तित्वम् ॥ उभयत्र पूर्वरागे
प्रवासे च ॥ करुणविप्रलम्भमाह—यूनोरिति । विमनायते शोक्याकुलश्चिन्तयन्
विलापं कुरुते । पुनरलभ्य इति । रतेर्नाशाद् उत्कटशोकसमवाय करुणाख्यो
- संभ्रम इत्यादिश्लोकांशो काशिकारथौ न कार्यः ।
१. गन्तुमुद्यते तु प्रिये स्वेन यदि सा न निवारिता तर्हि प्रियसख्या न्याय्यमित्यतः । इत्युपरि
'त्वमेदेनमपि वारय' इति पूर्वार्द्ध पश्चात् 'सर्वथासुहृदम्' इत्युत्तरार्द्धम् २. 'प्रस्थाने' इति '—तो' इति
इत्यन्तं पाठो नास्ति क-पुस्तकें. ३. 'अत्र—' इत्यादि दशानामुभयेषां 'पादनाम् इत्युः २०१ ।
इति श्लोकद्वये दृश्यते ३ 'चिन्तया' इति का. पुस्तकेऽस्ति