सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 384, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 384

तृतीयः परिच्छेदः । १७१
दशाविशेषो योऽत्रासौ पूर्वरागः स उच्यते ॥ १८८ ॥
श्रवणं तु भवेत्तत्र दूतवन्दिसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वप्ने च दर्शनम् ॥ १८९ ॥
अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च ।
उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः १९०
अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ १९१ ॥
अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् ।
व्याधिस्तु दीर्घनिःश्वासपाण्डुताकृशतादयः ॥ १९२ ॥
जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।
शेषं स्पष्टम् ।
क्रमेणोदाहरणानि—
'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया-
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
तस्य निरूक्तप्रकारचतुष्टयानन्तर्भावाल्लक्ष्यत्वाभावेन तत्र सामान्यलक्षणस्यातिव्याप्ति-
प्रसङ्गात् । तत्र पूर्वरागादिषु । मिथ इति । अन्योन्यमित्यर्थः । दशाविशेषोऽ-
वस्थाभेदः । अप्राप्तौ परस्परसङ्गमे । वन्दिनः स्तुतिपाठकाः । दशाविशेषा-
नाह—अभिलाप इति । दश प्रकाराः । अत्र पूर्वरागे । कामकृता रतिजन्या
दशाः कामदशाः । स्पृहा अभीष्टप्राप्तीच्छा । अपरिच्छेदो विशेषनिर्धारणा-
भावः । अलक्ष्यवाक् निर्विषयं वचः । शेषं स्मृत्यादिकम् ॥ प्रेमार्द्रा इति ।
प्रेम्णा आर्द्रा निविडस्पृष्टा । प्रेमान्विता इति यावत् । प्रणयं द्रढुं स्नेहं
स्पृशन्ति जनयन्ति । परिचयान्मुहुर्मुहुर्दर्शनात् । उद्गाढ उत्कटो यो रागः सुर-
तेच्छा तस्योदयो याभ्यस्ताः । मुग्धदृशो नाय्याः । चेष्टा नेत्रविशेषादिरूपाः

  1. स्मृतीत्यादि । 'दृष्टो यवाप्यरादेषु तद्भावं च गन्तव्यम् । तत्कर्मगुणौत्सुक्यानि
    चेष्टास्ताः स्मूतिरच्यते ।', 'सम्पर्केऽसतिपार्श्वस्याऽप्युन्मन्मथो द्रुतम् । इति वाचि मदे-
    यश्च तदुक्तं गुणकीर्तनम् ॥', 'दन्निष्टमन्यं वा न च दृष्ट्वं जायते । प्रद्वेषः प्राणि-
    दृष्टेष्विति स उद्वेगोऽभिधीयते ।', 'सम्प्राप्तेऽनङ्गसम्पर्केऽनङ्गविकृति । व्यापारी जायते
    यश्च स उन्मादो निरूप्यते ।'
    १. 'दृष्टोऽथवाप्यरादेषु' २. 'मद' इति पुस्तकान्तरे ३ 'दन्निष्टमन्यं दृष्ट्वा' 'दृष्ट्वा'
    इत्यस्य स्थाने वा पुस्तके नास्ति.