सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 383, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 383

१७० साहित्यदर्पणे
तत्र
यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।
अभीष्टं नायकं नायिकां वा ।
स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ॥१८७॥
तत्र
श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।
ग्रहणम् ॥ तद्भेदौ शृङ्गारभेदौ ॥ तत्र तयोर्मध्ये । विप्रलम्भमाह—यत्र
त्विति । तुशब्दश्चार्थः । तत्र रसे प्रकृष्टा प्रकरणादिना प्रधानत्वं प्राप्ता रति
रस्ति । नायिका नायको वा अभीष्टं नायकं नायिकां वा नोपैति नोपभुङ्क्ते असौ
विप्रलम्भ इत्यर्थः । तथा चोपभोगाभावसवलितप्रकृष्टरतिविषयो रसो विप्रलम्भ
इत्यर्थः । करुणादौ शोकोद्दीपनतया रतिसत्त्वेन तत्रातिव्याप्तिवारणाय प्रकृष्टेति ।
सम्भोगेऽतिव्याप्तिवारणाय उपभोगाभावेति । विप्रलम्भसमानविषयके ज्ञानान्तरे
संस्कारे वा अतिव्याप्तिवारणाय रस इति । अन्ये तु—'यत्र तु संसवलितह्लादतिर्न
प्रकृष्टा अभीष्टमुपैति विषयीकरोति स विप्रलम्भः' इति व्याकुर्वन्ति । तन्न । करुणे
ऽतिव्याप्तेः । यदि च 'यत्र' इत्यस्य 'शृङ्गारे' इति व्याकारात्करणे नातिव्याप्तिरि
त्युच्यते तदा 'अभीष्टमुपैति' इत्यस्यानर्थक्यम् । अभीष्टविषयरतेरेव शृङ्गारत्वेन
परिणामात् । अपरे तु—'नायिकादिभिरभीष्टं नोपैति न संगच्छते । तथा चामी-
ष्टविच्छेदसवलिता रतिर्यत्र स विप्रलम्भ' इत्याहु । तन्न । प्रणयमानादावभीष्ट-
विच्छेदाभावेनाव्याप्तेः । केचित्—"संयोग सुखसंभिन्नो विप्रलम्भस्तु दुःखयुक्त ।
रतिन्त्यो प्रकर्ष स्यादाधिक्यात्समुद् गतो ॥" इति दर्शनाद् दुःखसवलितरतिव्या-
विभावको रसो विप्रलम्भ " इत्याहु । तन्न । प्रणयमाने दुःखायोगादव्याप्ते ॥ स च
विप्रलम्भ चतुर्धा इतीदमुपलक्षणम् । विरहोऽपि वेदितव्य । स च गुर्वादिपरतन्त्र-
त्वात् । संगमप्रतिरोधो यथा—'कि रूद्ध प्रियया-' इत्यादि (१२४ पृ०) । अन्यथा
श्चेत् प्रथमः । नियोगकृतावच्छिन्नश्चे द्वितीयः । संयोगश्च न दम्पत्योः सामानाधिकर-
ण्यम् । एकतयानयनेनाप्यर्थादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एव वियोगोऽपि न
वैयधिकरण्यम् । दोषयोरुक्तत्वात् । तस्माद्द्वाविमौ संयोगवियोगावस्थान्तःकरणवृत्तिवि-
शेषौ । यन्मूलको विप्रलम्भाख्यादि धीः । तत्राद्यो यथा—'शयिता सविधेऽप्यनीश्वरा
सखीजनानुरोधेन मनोभवम् । द्रष्टुं छविमाननाम्बुजं लज्जास्तद्गतः निर्गसने ॥' इति ।
'द्वितीये' यथा—'अधो न लज्जा पराङ्मुखं नयनयुगलं नन दूतीमन्दिरमागतस्य
.... । विप्रलम्भस्त्वित्यादि, केवलह्लादांशोद्बोहा भावे केवलदुःख-
न ष्टिव सम्भोगसम्भोग इत्येके इति सिद्धो रसगङ्गाधरे ॥
इति शृङ्गार ....
...