साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 381, कुल 506 में से
संदर्भ में पढ़ें१६४ साहित्यदर्पणे
वाच्या । हासः पुनरुपच्यमानो व्यभिचार्येव । व्यभिचारिलक्ष-
णात् । तदुक्तम्—
‘रसावस्थां परं भावः स्थायितां प्रतिपद्यते ।’ इति ।
तत्तस्य स्थायिनः कस्मिन् रसे संचारित्वमित्याह—
शृङ्गारवीरयोर्हामो वीरे क्रोधस्तथा मतः ॥ १७२ ॥
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यत्समूह्येयं तथा भावितबुद्धिभिः ॥ १७३ ॥
अथ स्थायिभावः—
अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ॥ १७४
यदुक्तम्—
‘यत्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।
न तिरोधीयते स्थायी तैर्भावैः पुष्यते परम् ॥’ इति ।
... ॥ परमिति । अत्यन्तमित्यर्थः ॥ अक्षमा इति । 'भावा
इति शेषः । कन्दो मूलम् ॥ यत्सूत्रवृत्त्या यत्सूत्रन्यायेन । अनुगामकः प्रका-
१. स्थायीति । ...