साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 333, कुल 506 में से
संदर्भ में पढ़ें६ साहित्यदर्पणे
'त्रिवर्गसाधनं नाट्यम्' इति च । विष्णुपुराणेऽपि—
'काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च ।
शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ॥' इति ।
तेने हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शि-
तम् । तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह—'तददोषौ शब्दार्थौ
कृतिजन्यन्यतरजनक संस्कारविशेष ॥ त्रिवर्गो धर्मार्थकाम । नाट्यमभिनय-
प्रधानं नाटकादि ॥ काव्यालापा इति । रसव्यञ्जकाः शब्दार्था इत्यर्थ ॥ कारि-
कास्थं 'तेन-' इत्यादि व्याख्यायते—तेनेत्यादि । एतेन 'चतुर्वर्गफलप्राप्ति-'
इत्यादिश्लोकेन । अभिधेयं चेति । चकारेण प्रयोजनसम्बन्धयोर्लाभ । सम्ब-
न्धश्चात्र प्रयोजनाभिधेययो कार्यकारणभावरूप ॥ कश्चिदिति । काव्यप्रकाशकृत
कारिकाकार इत्यर्थः । तदिति । काव्यमित्यर्थ । शब्दार्थाविति । विनिगमना-
विरहेण उपस्थापकत्वसंवन्धेनार्थविशिष्ट शब्द । उपस्थाप्यत्वसंवन्धेन शब्दविशिष्ट-
थार्थं. काव्यमित्यर्थ । अत्र शब्दार्थयोर्विशेषणविशेष्यभावे व्यञ्जकत्वाव्यञ्जकत्वाभ्यां
वैचित्र्यविशेषरूपालंकारप्रयोजकत्वाप्रयोजकत्वाभ्यां प्रधानाप्रधानभावो नियामक ।
न च यत्रोभयोर्व्यञ्जकत्व वैचित्र्यविशेषाधायकत्वं वा तत्र का गतिरिति वाच्यम् ।
बाहुल्येन व्यञ्जकत्वेन चमत्कारातिशायाधायकत्वेन वा तत्र व्यवहारोपपत्ते । नच
तथापि यत्र व्यञ्जकयोर्वैचित्र्यविशेषप्रयोजकयोर्वा तुल्यत्व तत्र व्यवहारानुपपत्ति
- स्वरूपमिति । वस्तुनो मत्रस्येव काव्यस्य तद्विदा व्यवहारमन्तरेण किर्मा
निर्दुष्ट लक्षणं नास्ति । तत. सुन्दोपसुन्दन्यायेन सर्वाणि लक्षणानि खण्डितानि भवन्ति
ग्रन्थकारैरपि महत्या आरभट्या यल्लक्षण स्थिरीकृत तदपि लक्ष्यासंग्राहकत्वेन परै
खण्डितमेव । तदेतद् यथावसर निरीक्षणीयम् । एव यदधिकलक्ष्यसग्राहकं तदे
लक्षणं व्यवदार्यम् । तादृशू शब्दार्थावेव । उक्त चाचार्यरुद्रेन 'ननु शब्दार्थी काव्य-
इत्यादि । तत्र शब्दार्थयो. परिष्कारका गुणात्लकारादयो द्रष्टव्याः । एतदादि पर्य
लोच्यैव 'अविकनं काव्यमातुन्नच्छाव्दार्या वगाहन्ते स्पष्टम् । तावपि लक्ष्याभिमतार्थ
स्फुरण सामर्थ्याव. ॥' इति निरडन् । इह आत्मत्वव्यापदेशोऽर्थभागस्यैव वास्तविक
मारभूतत्वात् । अन्यम्य तु औपचारिक इत्यपि बोद्धव्यम् ॥
2 काव्यप्रकाशेनेति । वृत्तिकार एव कारिकाकार. । तथाहि—'माला तु पूर्वव
इति काव्यप्रकाशगताया 'पूर्ववत्' इति कथनेन वृत्तिकारकारिकाकारयोरेकत्व ।
वृत्तिगतादर्शितमालोपमायाः 'पूर्ववत्' इति दृष्टान्ततयोपन्यास. सगच्छते । 'मालोप-
मा दर्शिता वृत्तिकृता तु ना दृष्टान्तीकृतेति वृत्तिकारकारिकाहतोरैक्य मयमेन रा-
मादिक मुचिन्तू ॥' इति सुधासागर भीमसेनदीक्षिता अपि वदन्ति ॥
१ ग्रन्थ., 'इति' इति चतुर्थपुस्तके नास्ति । २ 'तेन-' इत्यादि 'पुन क्वापि, इ-
ति. काव्यप्रकाशगतायाः ३ तत्तद्ग्रन्थमूलतो ज्ञेयम् ४ 'आह' इति म घ-पुस्त
'अथ सन्दर्भार्थे -' इत्यादि । ५ 'काव्यप्रकाशकृत' इत्यत पर पुस्तकान्तरे नास्ति