साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 332, कुल 506 में से
संदर्भ में पढ़ेंप्रथमः परिच्छेदः । ३
अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्य-
फलान्याह—
चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ २ ॥
पारमार्थिकात् । एतन्मते सर्वमेव विशिष्टफलम्भव इति सर्वं समञ्जसम् ॥ ग्रन्थस्य-
प्रयोजनवत्त्वं दर्शयति—अस्येति । प्रकृतग्रन्थस्येत्यर्थः । काव्याङ्गतया का-
व्यस्वरूपनिरूपणद्वाराङ्गतया । काव्यफलैरिति 'काव्येन यशस्यर्थकृते व्यवहारविदे'
इत्यादि । काव्यफलैरेवान्वितस्येत्यन्वितम् । यथा दर्शपूर्णमासानां प्रयाजादीनां
दर्शपूर्णमासफलैरेव फलवत्त्वं तथास्यापीति भावार्थः । ननु प्रयाजादीनामदृष्ट-
सम्पादकतया परमापूर्वं प्रवृत्त्यान्य सम्भवन्तीति तत्र तथास्तु प्रकृते तु काव्यस्य काव्य-
गुणादोषाणामुपदेशकाव्येन बहुकृतं परमाश्चर्यमभजत् तस्य तद्ग्रन्थकर्त्तुः
तादृशोपदेशात् काव्यस्वरूपज्ञानं सिद्धं ततश्चास्मद्ग्रन्थस्य
प्रयोजनं न भवतीत्यत आह—सुखादिति । सुखादल्पधियामपि काव्यादेव चतुर्वर्ग-
फलप्राप्तिर्भवतीत्यन्वयः । अल्पधियां मन्दबुद्धीनां 'धियामल्पिष्ठानाम्' इति पाठान्तरम्
तदप्यल्पधियामित्यर्थकम् । एतद् ग्रन्थकृत्यं स्पष्टयन् ग्रन्थस्य
साक्षाद्विधेयतामपि दर्शयति—यत इति । यतः काव्येभ्यश्चतुर्वर्गप्राप्तिर्भवतीत्यर्थः
ततस्तेन—हेतुनेति । काव्यं सुखेन ज्ञायते नान्यथा
इत्यर्थः ।