साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 280, कुल 506 में से
संदर्भ में पढ़ेंअलंकारग्रन्थाः ।
(१) काश्मीरकस्य राजानक—रुय्य(य)कस्य अलंकारसर्वस्वम् । (२) काश्मी-
रकस्य राजानक—जेयरथस्य अलंकारविमर्शिनी । (३) काश्मीरकस्य भट्टशोभाकर-
मित्रस्य अलंकाररत्नाकरः । (४) दाक्षिणात्यस्य अप्पय्यदीक्षितस्य चित्रमीमांसा ।
(५) दाक्षिणात्यस्य पण्डितराज—जगन्नाथस्य चित्रमीमांसाखण्डनम् ।
नायिकारसप्रकरणानि ।
(१) रुद्रटस्य शृङ्गारतिलकम् । मैथिलस्य भानुदत्तमिश्रस्य (२-३) रसमञ्जरी-
रसतरङ्गिण्यौ । (४) शिवरामत्रिपाठिनो रसरत्नहारः ।
कतिपयविचारप्रकरणानि ।
(१) काश्मीरकस्य राजानक—रुय्यकस्य सहृदयलीला । (२-४) काश्मीरक-
स्य व्यासदासापरनाम्नः क्षेमेन्द्रस्य कविकण्ठाभरणसुवृत्ततिलकाौचित्यविचारचर्चाः ।
(५) राजशेखरस्य काव्यमीमांसा । (६) जैनयोररिसिंहामरचन्द्रयोः काव्यकल्प-
लतावॄत्ती । (७) देवेश्वरस्य कविकल्पलता । (८) पर्वतीयस्य विश्वेश्वरपण्डिते-
न्द्रस्य कवीन्द्रकर्णाभरणम् ।
साहित्यग्रन्थाः ।
(१) धारापतेर्भोजदेवस्य सरस्वतीकण्ठाभरणम् । (२) महामाहेश्वरस्य
एकावलीशास्त्रम् । (३) दाक्षिणात्यस्य विद्यानाथस्य प्रतापरुद्रीयम् । (४) केशव-
१. अस्यैव महापण्डितस्य शिष्यो राजानक-मङ्खक-महाकविर्विलेतेन कृतस्य
श्रीकण्ठचरितस्य पञ्चविंशतित्तमां व्यक्तम्. २. अयमेव जयरथ आचार्याभि-
नवगुप्तकृतस्य श्रीतन्त्रालोकमहार्णवस्य कर्णधारो जज्ञे. ३. अयं महानुभावो वेदान्त-
कल्पतरु-परिमलादिकर्त्ता । उक्तं चानेन-‘कणभक्षपक्षक्षपकक्षपरिकरणक्षणक्षतत्रादक्ष-
गिरम् । अनिकेशतर्कशतधुक्षिताक्षिपतङ्गपक्ष्मनक्षमपदम् ॥ कपिलोक्तिनिराकरणप्रवण-
कृतपन्नगदूक्तिपरिष्करणम् । नयमौक्तिकभूषितभट्टमतं विमलाशयचित्तुखमधिशियम् ॥
महतामपि मान्यतमं विदुषां विनिवेश्य गुरुं (श्रीरङ्गराजदीक्षितं) हृदि वैश्वजितम् ।
नयसंहतिशालिनि कल्पतरौ विवृतश्चरणः प्रथमः प्रथितः ॥' इत्यादि. ४. अनेनैव
सिद्धान्तकौमुदीव्याख्यायाः प्रौढमनोरमायाः खण्डनरूपं मनोरमाकुचमर्दनं निरमायि ।
उक्तं च तदारम्भे—'लक्ष्मीकान्तपदाम्भोजनाम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः
स्तौति गर्वं गुरुद्रुहा (भट्टोजिदीक्षितानाम् )' इत्यादि. ५. काव्यकल्पलता-कविकल्पलते
श्लोकरचनाप्रकारदर्शिके. ६. कवीन्द्रकर्णाभरणं बौद्धस्य धर्मदासस्य विदग्धमुखमण्डन-
मप्यतिशेते. ७. अस्यैकावलीनाम्नोऽलंकारशास्त्रस्योपरि सुप्रतिष्ठाना कोलाचलमल्लिनाथ-
सूरीणां तरलाख्या व्याख्या वर्त्तते । अत्रोदाहरणनायकः कलिङ्गेश्वरो नृसिंहभूपः ।
नृसिंहवर्णनश्लोका अत्रत्याश्चित्रमीमांसायामुदाहृताः. ८. कोलाचलमल्लिनाथसूरिसूनुना
कुमारस्वामिनामोपाधिना कृता प्रतापरुद्रीयस्य रत्नापणाख्या व्याख्या । अत्रोदाहरणनायकः
काकतीयकुलोत्तंसो रुद्रभूपालः प्रसिद्धः.