साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 225, कुल 506 में से
संदर्भ में पढ़ेंक्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा—
'न मे शमयिता कोऽपि भारस्येत्युर्वि मा शुचः ॥
नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः ॥'
अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते ।
'यद्यद्विरहदुःखं मे तत्को वापहरिष्यति ॥'
इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम् । तथाहि—ऐ-
त्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथानूद्य तत्-
तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं योज्यम् ।
पदांशे दुःश्रवत्वं यथा—
'तद्गच्छ सिद्धयै कुरु देवकार्यम् ॥'
'धातुमत्तां गिरिर्धत्ते ॥'
दर्शनीय इति ॥ द्वयोर्यत्तत्पदयोः । सामर्थ्यादाकाङ्क्षात् ॥ ननु यत्र पूर्ववाक्ये
यत्पदद्वयं तत्र कथमेकतत्पदेन निराकाङ्क्षप्रतीतिः । तत्र तत्पदद्वन्द्वस्यैव समु-
योग्यत्वात् । यथा—'यं यं कामयते कामं तं तमाप्नोति लीलया' इति । तत्र
आह—यद्यदिति । एक इति । उत्तरवाक्ये एकतत्पदप्रयोगोऽहं इति भावः ।
सर्वात्मकमिति । विरहदुःखत्वेन सामान्येन सर्वं विरहदुःखमित्यर्थः ॥ तथा-
भूतस्य विरहदुःखत्वावच्छिन्नस्य । तथा च वीप्साया वक्तुस्तात्पर्यमेव निदानङ्कदा
सामान्यरूपेण उपस्थापने वक्तृतातपर्यं सति न तत्पदे वीप्सा । तत्तद्विशेष-
उपस्थापने तात्पर्यं मनि तत्पदे वीप्सा । क्वचित्तु तत्पदे एव वीप्सा, न तु
यत्पदे । यथा—'ते ते सत्पुरुषा परार्थघटकाः स्वार्थस बाधेन ये ॥' एवमिति ।
अन्येषामनुचितार्थत्वादीनाम् । तच्च मया दर्शितमेव ॥ 'दोषाः केचिद्भवन्त्ये-'
१. यद्यदिति । परमार्थस्तु यद्यदिति न पदद्वयम् । किंतु 'नित्यवीप्सयोः' इति सूत्रेण
या यडो द्वित्वापन्नोऽयमादेशः । एव चादेशिनैकेन यत्पदेन तत्पदेन वाऽन्यान्यतरेण
रूपेण दुःसपरामर्शः । आदेशान्तु सावत्त्वेनान्वये तात्पर्येग्राहके इति यत्तत्पदे
न सम्बन्धभानोपपत्तौ न तत्पदेऽपि वीप्साद्योतनरो द्वित्वापन्न आदेशः । यत्र तु
तत्पदेऽपि वीप्सा तत्र न यत्पदेऽप्यादेशः । किं तुभाभ्या रूपद्वयेन सर्वोत्पन्नानर्थ्य-
तत्त्वम् ॥
२. सिद्धयै इति । अत्र 'सिद्धै' इति चतुर्थ्यन्तपदैकदेशः श्रुतिकटु ॥ अत्र 'तद्गच्छ'
मर्थान्तरलम्ब्य एव । अपेक्षते प्रत्ययमङ्गगच्छ्यै बीजाङ्कुर प्रागुदयादिवाग्म ॥' इत्य-
वशिष्टा पादत्रयी ॥
१ 'प्रयोगात्' पुस्तकान्तरे