सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 224, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 224

सप्तमः परिच्छेदः । ३८७
यथा-
'नैवजलधरः संनद्धोऽयं न दृप्तनिशाचरः ॥'
उक्तोदाहरणे तु तत्पुरुषसमासे गुणीभावे नञ्. पर्युदासत्या निषे-
धस्य विधेयतयानवगमः । यदाहुः-
पदार्थतावच्छेदकेन सह सम्बन्धस्य वाक्ये असौ नञ् । प्रसज्यप्रतिषेध इत्यर्थे ॥
उदाहरति-यथेति । नवजलधर इति । गन्धर्वेणोर्वश्या हृताया पुरूरवस-
स्तद्विरहे नवजलधरादौ निशाचरादिप्रतीतिरित्पैतन्निदम् । अयं सन्नद्धो न नवज-
लधर, दृप्तनिशाचर इति । अयं नवजलधरत्वाभाववानित्यर्थः । अत्रेशपदार्थस्य
उद्देश्यत्वम्, नञर्थस्याभावस्य विधेयत्वम्, समभिव्याहृतपदार्थतावच्छेदकेन सह
नञर्थस्य सम्बन्धः । न च विधेर्भावपदार्थस्येति व्यारोद्धम् । सन्नद्धो न दृप्तो-
नापिलादस्येष्टत्वापत्तेः । विधेयेति । यथारूपताविधेयत्वे तु 'घटो न पटोऽयम्'
इत्याद्यसङ्ग्रहेऽप्युदाहरणायसङ्ग्रहता । न च सर्वत्र क्रियान्वयित्वेनै-
वोदाहरणादौ नञ प्रसज्यप्रतिषेधत्वमेवे नासीति वाच्यम् । तत्र निषेधविधेयत्वा-
भावेन पर्युदासत्वासम्भवात्तत्तत्प्रकारान्तरेणैव प्रसज्यप्रतिषेधत्वस्योदाहर्तुं श-
क्यत्वात् । अत एवान्वर्थमादायाभिप्राये गोपीचन्द्रोऽप्याह-'धर्मधर्मिणोः प्र-
सज्यप्रतिषेधो नाभूत्', 'प्रत्यग्रोऽयं न भवति', 'इत्यन्वयं प्रक्रैद्य निषिध्यते'
इति । 'दुर्निवारम्' इत्यादी रूपात्तुप्रतिषेधत्वमप्रतिपद्यते केवलं नञर्थस्य सम्बन्धः ।
यदाह 'घटो नेति न घटते', 'तन्न श्रेयसा न योज्यम्' इत्यादौ क्रियान्वयेन सह
नञर्थस्यान्येऽपि प्रसज्यप्रतिषेधः स्यात् । सर्वत्र निषेधविधौ नञ्प्रयोगा-
दित्यन्वयित्वासाधितम् एव । एवं च 'घटो न पटः' इत्यादावुभयपदार्थेन सह
क्रियान्वयं विनापि नञर्थसम्बन्धेऽपि विधित्वमेव प्रसज्यप्रतिषेधस्य । न
ह्यत्र घटाभाव एव विधेयः न तु पटभेद इति वाच्यम् । एतेनैतदपि नीतं
सर्वत्र नञर्थस्य विधेयत्वैव तस्य प्रसज्यप्रतिषेधरूपत्वाभिप्रायः इतरेतर-
भेदाभावयोर्विधेयत्वेन तयोर्निषेध्यप्रतिषेधत्वेनोपपत्तिरिति भावः ।'
यद्विधेयं तदभावः (इत्येव प्रसज्यप्रतिषेधत्वं वाच्यम् इति प्रतिषेध्यतादा-
त्म्याणां क्रियान्वयित्वस्यापि प्रसक्तत्वात् इति भावः ।
यत्तु 'आश्रयाभावत्वेन तदभावयोर्विधेयत्वे सामानाधिकरण्यम्'
इति तन्निराकृतम् । सर्वत्रैव प्रसज्यप्रतिषेधे विधेयता नञर्थस्य
सर्वत्र सम्भवति-एवमेवावधायितमिति दिक् । यदाहुः-
पर्युदासोऽयं यत्र पूर्वपदार्थप्राधान्यम् । समासस्यो-
.......................................................................
.......................................................................
.......................................................................