साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 216, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः । ३६१
यथा मम प्रभावत्याम्—‘वज्रनाभः—
( अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ )
प्रद्युम्नः—अरेरे असुरापसद, अलममुना बहुप्रलापेन । मम खलु
अद्य प्रचण्डभुजदण्डसमर्पितेरु-
कोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्ता समस्तदितिजक्षतजोक्षितेयं
क्षोणिः क्षणेन पिशिताशनलोभनीया ॥’
गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ २६० ॥
यथा वेण्याम्—‘राजा—
अध्यासितुं तव चिराज्जघनस्थलस्य
पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥’
अनन्तरम् ‘(प्रविश्य) कञ्चुकी—देव, भग्नं भग्नं—’ इत्यादि ।
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सबन्धे सबद्धम् ।
व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।
यथा छलितरामे—‘सीता—जाद, कालं क्खु उअज्झाएण
गन्तव्वम्, तर्हि सो राजा विणएण पणयिदव्वो । लवः—अथ किमा-
दाभ्या राजोपजीविभ्या भवितव्यम् । सीता—जाद, सो क्खु तुह्माणं
पिदा । लवः—किमादयो रघुपतिः पिता । सीता—( साशङ्कम् । ) ना
अप्पधा सक्कइम् । ण क्खु तुह्माणम्, सअलाए जेव पुहवीएत्ति ।’
पिशितेन दानवातिशयेनेति ॥ अस्य प्रद्युम्नस्य । वो देवानाम् ॥ गण्डमाह—
प्रस्तुतसम्बन्धि प्रस्तुतार्थसंबद्धम् ॥ पर्याप्तं समर्थम् ॥ सम्बन्धे प्रस्तुते ॥ अवस्य-
न्दितमाह—व्याख्यानमिति । स्वरसोक्तस्य ‘अवश्यम्’ इति शेषः ॥ जाद
इति । ‘पुत्र, काल एव उपाध्यायेन गन्तव्यम्, तत्र स राजा विनयेन प्रणयि-
तव्यः’ ( इति संस्कृतम् । ) ‘पुत्र, स खलु युष्माकं पिता ।’ इति संस्कृतम् ।
‘ना अन्यथा शक्यम् । न खलु युष्माकम् । सकलस्य एव पृथिव्या इति ।’ इति
संस्कृतम् । अत्र सीतया युष्मच्छब्दोक्तः श्रीराम इत्यभिप्रायेणेदं वचनम् । ‘वत्सर-’
- आख्यानमिति । प्रस्तुतार्थं ह—रहोनावुञ्च्य पवनदुर्गोऽनुषङ्ग प्रवृत्ते-
इति मम तोरुन्तवाप्यन ।’ इति ।
साहि० ३१