साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 215, कुल 506 में से
संदर्भ में पढ़ें३६० साहित्यदर्पणे
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । ‘नटादित्नितयविषयमेवैतत्’
इति केञ्चित् ।
प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् ।
यथा वेण्याम्—भीमार्जुनौ—
कर्ता द्यूतच्छलानां, जतुमयशरणाद्दीपनः, सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः
क्वास्ते दुर्योधनोसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥
अन्ये त्वाहुर्र्छलं किञ्चित्कार्यमुद्दिश्य कस्यचित् ॥ २५८ ॥
उदीर्यते यद्वचनं वञ्चनाहास्यरोषकृत् ।
वाकेलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९ ॥
द्वित्रीत्युपलक्षणम् । यथा—
‘भिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना
मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा
चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥’
केचित्—‘प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाकेलिः’ इत्याहुः।
अन्ये च ‘अनेकस्य प्रश्नस्यैकमुत्तरम् ।
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् ।
‘त्वया विरहिता मया दृष्टा’ इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह—नटादीति’
आदिना नटीप्रतिनटयोर्ग्रहणम् । इदं त्रिगतम् ॥ छलमाह—प्रियाभैरिति ।
प्रियतुल्यैरित्यर्थः । छलना वञ्चना ॥ जतुमयशरणाद्दीपनः अनुजशतस्य
अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्याः केशोत्तरीययोगपद्ये पटुः । अत्रे
भवाव । ‘आवाम्’ इति शेषः ॥ वाकेलिमाह—वाकेलिरिति । द्वे वा तिस्रो
प्रत्युक्तयस्ताभ्यः । समानप्रत्ययानाममित्यत्रादत्र डप्रत्ययाभावः । अनेकस्येत्यर्थः
म्युनगमिति वाकेलित्याहुर्गलन्वयः ॥ अधिवलमाह—अन्योन्येति ।...
- द्वित्रीति । तथा चाह दशरूपककार—‘द्युतिमापन्नादेकस्यैवार्थवचन...
ण्ड द्वित्रिवादाः पूर्वंरङ्गे नविध्यन्ते ॥’ इति ॥