साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 208, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः । ३५१
प्रहर्षः प्रेमदाधिक्यम्—
यथा शाकुन्तले—‘राजा—तत्किमिदानीमात्मानं पूर्णमनोरथं
-मभिनन्दामि ।’
शिक्षा स्यादुपदेशनम् ।
यथा तत्रैव—‘सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदस-
क्कारं अदिधिविसेसं उज्झिअ सच्छन्ददो गमनम् ।’
एषां च लक्षणं नाट्यालंकाराणां सामान्यत एकरूपत्वेऽपि भेदेन
व्यपदेशो गड्डुलिकाप्रवाहेण । एषु च केषांचिद्गुणालंकारभावसंध्यङ्ग-
विशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्तव्यत्वाद्विशेषोक्तिः ।
एतानि च—
‘पञ्चसंधि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् ।
षट्त्रिंशल्लक्षणोपेतमलंकारोपशोभितम् ॥
महारसं महाभोगमुदात्तरचनान्वितम् ।
महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥
कर्तव्य एवेत्यर्थावधारणम् ॥ सहि इति । ‘सखि, न युक्तमाश्रमवासिनो जनस्या-
कृतसत्कारमतिथिविशेषमुज्झित्वा स्वच्छन्दतो गमनम्’ इति संस्कृतम् । अत्र शकु-
न्तलां प्रति तस्या उपदेशोक्तिरियम् ॥ ननु भूषणादीनि यानि लक्षणान्युक्तानि
तानि नाट्यभूषणहेतुरुपसामान्यधर्मयोगेन नाट्यालंकारमध्य एवान्तर्भवितुमर्हन्ति,
तदेषां भिन्नेनोपादानमनतिप्रयोजनमित्यभिप्रायेणाह—एषां चेति । गड्डुलि-
काप्रवाहेण गतानुगतिकन्यायेन । ननु भूषणस्य दयादय गुणेऽलंकारे च,
शोभाया रूपे विशेषणरूपविशेषोत्पत्त्यारे, एवमन्येषादिनाट्यालंकाराणामपीरा-
दलंकारेषु, एवं दृष्ट्यादीनां दृष्ट्यादिरूपेषु चान्तर्भावे सिद्धे पुनरुपादानमन्वर्थक-
मित्यत आह—एषु चेति । लक्षणनाट्यलङ्कारेष्वित्यर्थः । एतानि लक्षणानि
‘नाटकेऽवश्यं कर्तव्यानि’ इत्यनेनान्वयः । भोगो भावविशेषानुभावो वा । रचनाया
उदात्तत्वं विलासादियुक्तत्वम् । महापुरुषस्य धीरोदात्तनायकस्य सत्कारो
- प्रमदेति । प्रमदन अन्यस्य सादृश्यं न सम्भाव्यते ॥
१ ‘युतम्’ इति क्वचित् पाठः । २ ‘महाभाग्यम्’ इति नाट्यशास्त्रस्य पाठः ।
३. ‘यत्नतः’ इति नाट्यशास्त्रस्य पाठः । ४. ‘संस्कारम्’ इति नाट्यशास्त्रस्य पाठः ।