सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 207, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 207

३५० साहित्यदर्पणे
यथा—
'प्राणप्रयाणदुःखार्त्त उक्तवानस्म्यनक्षरम् ।
तन्क्षमस्व विभो, किं न सुग्रीवन्ते समर्पितः ॥'
अवधीरितकर्त्तव्यकथनं तु निवेदनम् ॥ २१० ॥
यथा राघवाभ्युदये—'लक्ष्मणः—आर्य, समुद्राम्यर्थनप्र-
वृत्तोऽसि । तत्किमेतत् ।'
प्रवर्त्तनं तु कार्यस्य यत्स्यात्साधुप्रवर्त्तनम् ।
यथा वेण्याम्—'राजा—कञ्चुकिन्, देवस्य देवकीनन्दन-
मानादृत्तस्य भीमसेनस्य विजयमङ्गलाय प्रवर्त्तन्तां तत्रोचिता-
रम्भाः ।'
आख्यानं पूर्ववृत्तोक्तिर्—
यथा तत्रैव—
'देशे. सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः' इत्यादि ।
युक्तिरर्थावधारणम् ॥ २११ ॥
यथा तत्रैव—
'यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तो-
र्किमिति मुधा मलिनं यशः कुरुध्वम् ॥'
॥ प्राणेति । विभो श्रीराम ॥ अवधीरितेति । अवज्ञातस्य
प्रयोजनस्य अवधारणं कर्तव्यत्वनिश्चयः ॥ इतः समरात् । अन सम्---

  1. देशे इति । पाठनस्तु—'अत्रादेव तथाविधः परिभवन्नातान्च केनापहः । दृप्त-
    बाहिनशस्त्ररस्तरगुरुश्यामानि मान्चन्ति मे यद्वामेण इत तदैव हरते क्रौ---
    क्रोधन. ॥' इति ॥
    १. 'उपचिता च