सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 194, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 194

पञ्चमः परिच्छेदः । २६३
नाना आस्वादपदवीं गताः सन्तो रसा उच्यन्त इति, अवश्यंभावी
प्रतीतिक्रमः केवलमाशुभावितयाऽसौ न लक्ष्यते, यतोऽयमद्याप्यभि-
व्यक्तिगर्भः" इति यदुक्तम्, तत्र प्रष्टव्यम्—किं शब्दाभिनयसमर्पित-
विभावादिप्रत्ययानुमितरामादिगतरत्यादिज्ञानमेव रसत्वेनाभिमतं भवतः,
उद्भावनया भावकैर्भाव्यमानः स्वप्रकाशानन्दो वा । आद्ये न विवादः ।
किंतु 'रामादिगतरत्यादिज्ञानं रससंज्ञया नोच्यतेऽस्माभिः' इत्येव
विशेषः । द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव ।
तथोक्तं तेनैव—'यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसंचारिणा-
मभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः' इति सुग्रहैव
व्याप्तिः पक्षधर्मता च ।
आस्वादपदवीम्—त एवेति । विभावाद्य एवेत्यर्थः । आस्वादपदवीं प्रत्यक्षवि-
षयताम् । तथा च पयो दध्यान्ययोगेन दधित्वं प्राप्नुवद्यथा कारणमुच्यते तथा
विभावादयोऽप्यन्योन्यसंसर्गादियोगेन रसादिरूपतां प्राप्नुवन्तो रसादेः कारण-
मुच्यन्त इति भावः । नन्वेतादृशकार्यकारणभावस्वीकारे रसादेरसंलक्ष्यक्रम-
व्यत्वं व्यसङ्गतमत आह—अवश्यंभावीति । तासां विभावादिप्रतीतिव्या-
प्तिपक्षधर्मता महरणमधुलेखास्वादनरूपाणां प्रतीतीनां क्रमः पौर्वापर्यम् । आशु-
भावितया शैघ्रयसंबन्धात् । असौ क्रमः । तथा चासा शतपत्रव्यतिभेदेवत्क्र-
मस्यात्त्वेऽपि सूक्ष्मत्वात्तया स न लक्ष्यत इति भावः । ननु भवत्सिद्धनधिकं कल्प-
न्तत आह—यत इति । अयमीदृशः, अद्यापि रसादेर्व्यङ्ग्यत्वस्वीकारेऽपि,
अभिव्यक्तिर्व्यञ्जनजन्यबोधः । यथा भवतां प्रथमं विभावाद्युपस्थितिः, ततो
रत्यादिस्मृतिः, ततः साधारण्याभिमानः, ततो रसानुभूतिः, इति क्रमसत्त्वेऽ-
प्याशुभावितया रसादेरसंलक्ष्यक्रमसमुपलक्ष्ये तथास्माकमपीति भावः । शब्दाभि-
नयेति । शब्दव्यञ्जकवाच्यद्वयानभिप्रायेण । समर्पितेति । जनितेत्यर्थः । भव-
तस्त्व । तद्भावनया विभावादिवोधेन । भावकैः सामाजिकैः । भाव्यमान
आस्वाद्यमानः सन् आत्मना प्रकाशो यस्य स । 'रसत्वेनाभिमतः' इति द्वित-
यकल्पेनान्वयः । असिद्धो नानुमिति विषयः । श्रोत्रियचरणलीन चञ्चादीनां विभा-
बादिसद्भावसत्त्वेऽपि स्वप्रकाशानन्दानुत्पत्तिदर्शनादयं हेतुर्व्यभिचारीति व्याप्तिग्र-
१. व्याप्तिरिति । यत्र यत्र धूमस्तत्र तत्र वह्निरिति साहचर्यनियमः । साध्यसाध-
नयोर्व्याप्तिरित्यर्थः ॥
२. पक्षेति । व्याप्तस्य (धूमस्य) पर्व्वतनिष्ठवृत्तित्वम् ॥

  • 'व्यङ्ग्यक्रियः' क. 'अभिव्यक्तिज्ञः' घ. २. 'इमं-' इत्यादि 'अभ्यनुज्ञेयं' इत्यन्तः
    पाठः इतःपूर्व्वं द्विषु पुस्तकेषु दृश्यते । ३ 'बोधः' इत्यादिः पाठो मुद्रिते.