सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 146, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 146

तृतीयः परिच्छेदः । १९३

पुंष्टिषु महाभारतादौ द्रष्टव्यः ।
निरहङ्काररूपत्वादयावीरादिरेष नो ॥ २४९ ॥
दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य-
नुरागादेरन्ते च विद्याधरचक्रवर्तित्वप्राप्तेर्दर्शनादहंकारोपशमो न दृ-
श्यते । शान्तस्तु सर्वाकारेणाहंकारप्रशमैकरूपत्वान्न तत्रान्तर्भावम-
र्हति । ततश्च नागानन्दान्डे शान्तरसप्रधानत्वमपास्तम् । ननु
'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ॥'
इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां
प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात्कथं रसत्वमित्युच्यते—
युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन्सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥२५०॥

'निर्बीजतः- इति पठेऽपि बीजं वासना तच्छून्यीकृतेत्यर्थः । करटः काकः ॥
ननु शान्ते दयावीरादिसम्भवेन दयावीरादिरेवायमित्यत आह—निरहङ्काररू-
पत्वादिति । आदिना धर्मवीरदानवीरादिप्रभृतीनां ग्रहणम् । एष शान्त-
रसः । तथा चाहंसात्सान्तो दयाविरेव दयावीरादेर्घटकः । तदितः शान्तरस
इति विशेषः । तत्तद्भेदानविशेषाचाराच्च । नागानन्दे दयावीरादिप्रधाने ग्रन्थ-
विशेषे ॥ न यत्रेति । द्वेषो रिपूणामपचितीर्षा । रागः सुहृदामुपचितीर्षा । इच्छा
दैवाद्विसुखजनकोपचित्सा । भावेषु पदार्थेषु लोष्टकाञ्चनादिष्विमादादिषु सत्सु राग-
द्वेषरहितेन समन्विपमं प्रमाणं प्रतीतिर्येन । 'समप्रधानः' इति पाठस्तु न मनो-
रमः, अर्थासङ्गतेः । तादृशावस्था व्यभिचारिभावादीनामसम्भवात् । शम एव
स्थायितया प्रधाने यत्र सः । आत्मस्वरूपापत्तिलक्षणायाः परमात्मस्वरूपलप्राप्ति-
रूपायाम् ॥ युक्तवियुक्तेति । विषयेभ्यः प्रत्याहृत्य साक्षात्कर्त्तव्ये वस्तुनि मनो
विधाय वर्त्तमानश्चिन्तासतानवान् युक्तः । यस्य योगजवर्ममत्कृतेन मनसा जिन्ना-
सितवस्तुनासाकारो जायते । यश्च भूतेन्द्रियजयी अणिमाद्या कामसिर्द्धीर्दूराध्व-
पायान्वेन्द्रियसिद्धीरमान्विन्दान् समाध्यन्दिनो वियुक्तः । यस्य च योगजवर्म्म-

  1. स एवेति । तादृशशम एव स्थायिभावो रसतां लभत इत्यर्थः ।

१ 'पुष्टि-' इति पठित्वा नास्ति ग पुस्तके २ 'अन्य दयावीरादेः समानान्देत्याह' इत्यधिकं
ग पुस्तके ३ 'न नागान्दान्डे' इति नास्ति घ पुस्तके ४ '-वाहनादौ' ग घ ५ अधि-
ष्टव्यो नास्ति ङ पुस्तके ६ 'सर्वेष्वपि' ग ७ 'तत्र स सम्भवितुमर्हति' ग ८ 'नन्दे'
ग घ ९ 'समप्रधानः' क ख घ १० 'पदार्थेषु' नास्ति पुस्तकान्तरे ११ 'लोष्टवाथनादि'
नास्ति पुस्तकान्तरे १२ 'रागा-' इत्यादि '-सम्भवात्' इत्यन्त पाठो नास्ति पुस्तकान्तरे
साहि० १७