साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 144, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १९३
पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
निरहंकाररूपत्वाद्वयावीरादिरेष नो ॥ २४९ ॥
दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य-
नुरागादेरन्ते च विद्याधरचक्रवर्तित्वार्थैर्दर्शनादहंकारोपशमो न दृ-
श्यते । शान्तस्तु सर्वाकारेणाहंकारप्रशमैकरूपत्वान्न तत्रान्तर्भावम-
र्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु
'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ॥'
इत्येवरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां
सद्भावात्तत्र संचार्यादीनामभावात्कथं रसत्वमित्युच्यते—
युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन्संचार्यादेः स्थितिश्च न विरुद्धा ॥२५०॥
'बीजीभवेत्' इति पाठेऽपि बीजं वासना तच्छून्यीकृतेत्यर्थः । करटः काकः ॥
इदानीं शान्ते दयाद्यतिशयसम्भवेन दयावीरादिरेवायमित्यत आह—निरहंकाररूप-
त्वादिति । आदिना बर्बरीकदेवताविषयरतिप्रभृतीनां ग्रहणम् । एष शान्त-
रसः । तथा चाहंकारसर्वस्वितो दयादिरेव दयावीरादिरेवैटकः । तदितरः शान्तरस
स्य विशेषः । ततश्चेत्येवविशेषावधारणञ्च । नागानन्दे दयावीरादिप्रधाने ग्रन्थ-
शेषे ॥ न यत्रेति । द्वेषो रिपूणामपचिकीर्षा । रागः सुहृदामुपचिकीर्षा । इच्छा
विषयसुखतदुपायेच्छा । भावेषु पदार्थेषु लोष्टकाञ्चनादिविभावादिषु सत्सु राग-
राहित्येन सममविपं प्रमाणं प्रतीतिर्येन । 'शमप्रधानः' इति पाठस्तु न मनो-
रमः, अर्थासङ्गतेः । तादृग्दशायां व्यभिचारिभावादीनामसम्भवात् । शम एव
चितिया प्रधानं यत्र सः । आत्मस्वरूपापत्तिलक्षणायां परमात्मस्वरूपलप्राप्ति-
रूपायाम् ॥ युक्तवियुक्तेति । विषयेभ्यः प्रत्याहृत्य साक्षात्कर्त्तव्ये वस्तुनि मनो
वाय वर्त्तमानश्चिन्तासतानवान् युक्तः । यस्य योगजधर्मसहकृतेन मनसा जिज्ञा-
स्यवस्तुसाक्षात्कारो जायते । यश्च भूतेन्द्रियजयी अणिमाद्याः कामसिद्धीर्दूरश्रव-
णाद्यैन्द्रियसिद्धीरासादितवान् समाध्या... । यस्य च योगजधर्मस-
१. स एवेति । तादृशशम एव स्थायी ... भत इत्यर्थः ।
१ 'पुष्टि-' इति पङ्क्तिका नास्ति ग पुस्तके, 'देः सकाशाद्भेदामाह' इत्यधिकं
पुस्तके ३ 'नागानन्दादौ' इति नास्ति '-वाहनादौ' क-घ ५ आदि-
ब्दो नास्ति क घ पुस्तकयोः ६ 'सम' सम्भवितुमर्हति' ग ८ 'नन्दे'
घ ९ 'शमप्रधानः' क ख ग १ कान्तरे ११ 'लोष्टकाञ्चनादि'
नास्ति पुस्तकान्तरे १२ 'राग-' इति पाठो नास्ति पुस्तकान्तरे
साहि० १७