साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 142, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 142
तृतीयः परिच्छेदः । १८७
अस्य युद्धवीराङ्गत्वमाह—
रक्तास्यनेत्रता चात्र मेदिनी युद्धवीरतः ॥ २३१॥
अथ वीरः—
उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥ २३२ ॥
आलम्बनविभावास्तु विजेतव्यादयो मताः ।
विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः ।
अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥ २३३ ॥
संचारिणस्तु धृतिमतिगर्वस्मृतितर्कगोमाञ्चाः ।
स च दानधर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ॥ २३४ ॥
सं च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः ।
तत्र दानवीरो यथा परशुराम —