साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 141, कुल 506 में से
संदर्भ में पढ़ें१८६ साहित्यदर्पणे
अथ रौद्रः—
रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ २२७ ॥
मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ॥ २२८ ॥
भ्रूविभङ्गाङ्गुलीनिर्देशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेपणामि च ॥ २२९ ॥
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।
अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ॥ २३० ॥
मोहामर्षाद्यस्तत्र भावाः स्युर्व्यभिचारिणः ।
यथा—
'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-
मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥'
यस्य स ॥ रौद्ररसमाह—रौद्र इति । तच्चेष्टा रिपुचेष्टा । ता विशिष्याह
मुष्टीति । विकृतं विरुद्धाचरणम् । छेदः खङ्गादिना । अवदारणं शूलादिना
अस्य रौद्रस्य । 'अवदानं कर्मवृत्तम' इत्यमरः ॥ कृतमिति । द्रोणशिरश्छेदे
क्रुद्धस्याश्वत्थाम्नोऽर्जुनं प्रति सवोक्त्योक्तिरियम् । इदं मत्पितृशिरश्छेदरूपं गुरुपातकं
तत्कारणं कर्म यैरुद्यतायुधैर्मर्यादाशून्यैरेत एव मनुजपशुभिर्भवद्भिः कृतमनुमतं
दृष्टं वा, नरकरिपुणा कृष्णेन सार्धं भीमकिरीटिसहितानां तेषां मेदोमांसैरसृजा
दिशां दिग्गवस्थितभूतानां बलिं करोमीत्यर्थः । अयमेतत्क्षणवर्त्येव । अत्राश्वत्थाम्नः
क्रोधः स्थायिभावः । तदत्कार्यमुद्दीपनम् । तादृशगर्जनमनुभावः ॥ २३० ॥
- रौद्र इति । क्रोधस्थायिभावको द्विपदालम्बनकृतोद्दीपनोद्भटो रक्ताङ्गः
विवृद्धगर्वादिसञ्चारिणो रौद्र इति ॥ - कृतमिति । दृढं रौद्रग्मस्य जनकेना वृत्तिर्नास्ति, अतः 'नराकारैरपीर्यावनवद्ध-
वेगोन्मदैरे मद्बीजपुण्यांशुकः गग्निमाद्यस्य वृश्वति । अद्य पतन्तु निदयं दानववृन्द-
दूतप्रचण्डतुरिदमङ्गे मम परश्वधो भैरवः ॥' इत्युदाहार्यम् । क्या च गगनगङ्गा-
परशुरामयोक्तिः । अत्र मटोद्धता वृत्तौ रौद्रस्य परमोन्नतिना परिपुष्यति ॥
१. 'आलम्बनं विरोधी स्याद्' ग २. 'हस्तनिर्देशबाहुप्रस्फुरणाद्यनुभावतः । मोहामर्षाद-
न्ततदिग्यभिचारिमाद् ॥' इति ग