साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 137, कुल 506 में से
संदर्भ में पढ़ें१८२ साहित्यदर्पणे
तथा च भरतः—'यत्किंचिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनी-
वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)' इति ।
किं च।
कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥ २१३ ॥
यदुक्तम्—
'न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान्रागो विवर्धते ॥' इति ।
तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसंभवे पार्वतीपरमेश्वरयोः
प्रवासानन्तरं संभोगो यथा मम तातपादानाम्—
'क्षेमं ते ननु पक्ष्मलाक्षि-किमअ खेमं महञ्जि दिठं,
एतादृक्चेतना कुत -तुह पुणो पुट्ठ सरीरं जढो ।
केनाह पृथुल. प्रिये-पणइणीदेहस्स समेलगात्,
त्वत्त मुञ्रु न कापि मे-जह ट्ठहं खेमं कुढो पुच्छसि ॥'
एवमन्यत्राप्यूह्यम् ।
क्रमेणैव च संभोगभेदानाह -- किं चेति । एतद्भेदाऽऽविर्भावतया पक्षानां
सूचनम् । आदिना मानप्रवासकरणाविप्रलम्भानां ग्रहणम् ॥ अश्नुते प्राप्नोति
एतेन पूर्वरागादिकं विनापि संभोगः संभवतीति सूचितम् । तथा च प्रत्यग्रप्रत्य-
भेदेन संभोगो द्विविधः । विप्रलम्भानन्तरं संभोगः प्रकृष्टः । स च प्रत्यग्रप्र-
भेदेन चतुर्विधः । तादुपगताऽऽकृष्ट इति पाठश्च ॥ क्षेमं ते इति । संस्कृतं
नायकस्य प्रश्नः, प्राकृतं नायिकाया उत्तरम् ...
...
...
...
...