रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 70, कुल 335 में से
संदर्भ में पढ़ें[ ६१ ]
(९८ख) वेतालः करटश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥
(९९क) धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः ।
Śl. 101—106. 'हेमाद्रिव्रतखण्डे'¹⁴³ 'विष्णुधर्मोत्तर'दुद्धृताः । कुत्र कुत्रापि
पाठभेदाः सन्ति । केचन श्लोकास्त्यक्ताश्च । तत्र पाठभेदाः—
( १०१क-अर्धश्लोके ) दिव्यरूपाम्बरधरा— । (१०२) पृथक्चतु०— — सिंहासना —।
सिंहासनस्थं कर्तव्यं— ॥
( १०३क )—महाभाग !— सा स्थिता । (१०४) —— तस्याधः— । —०श्रेष्ठ !
—०स्थितम् ॥
(१०५)— —०स्था राजन् — । तस्याश्च द्वौ — द्विज ! ॥ (१०६क) — तत्पृष्ठे
कुञ्जरद्वयम् ।
Śl. 107, 108. 'विश्वकर्मशास्त्रा'त् समुद्धृत इति प्रतीयते । तत्र भेदोऽप्यस्ति ।
श्लोकार्धं परित्यक्तं च । तद्यथा—
(१०७क) कोह्लापुरं विनाप्यत्र —०ोच्यते । (१०८) —०की ततः । वामोर्ध्वे — —॥
[ बिभ्रती मस्तके लिङ्गं पूजनीया विभूतये । ]
Śl. 109—117. ध्यानमेतत् प्रायेण 'मत्स्यपुराणीय¹⁴⁵ अ० २६२' 'कात्या-
यनी'-ध्यानमनुवर्त्तते । सदृशध्यानानि अन्यत्र च दृश्यन्ते, तद्यथा 'अभिलषितार्थचिन्ता-
मणौ'¹⁴⁶ 'मयदीपिकायाम'पि¹⁴⁷ । तेन मूलध्यानस्यास्य सार्वभौमिकता ज्ञायते । पाठभेद-
प्रदर्शनं पिष्टपेषणमात्रमिति मत्वा तस्मात् विरमामः । केवलं ( १०९ख-श्लोकार्धोक्तस्य )
'त्रयाणामपि देवानामनुकारानुकारिणी' इति विशेषणं, 'अभिलषितार्थचिन्तामणौ' धृतं
'शिवनारायणात्मिका'-विशेषणं च मनसि आकारयतीति प्रदर्शयामः ।
Śl. 118. 'हस्तक'-शब्दस्यार्थस्तावत् पारिभाषिकः । 'करणं' 'मुद्रा' वाऽस्य
समानार्थकशब्दौ । विनियोगश्च 'हस्तका'नामभिनये । तेन 'मस्तके'ति पाठो न कदापि
अनुमोदनीयः ।
143. Hemādri : Caturvargacintā-maṇi (Ed. Bibliotheca Indica).
144. See T. A. Gopinatha Rao : Op. cit.
145. Matsya-purāṇam. Adh. 262. (Vaṅgavāsī Ed., Cal.).
146. Abhilaṣitārthacintāmaṇi. MSS. No. 69 (Mysore, 1926). Prakara-
ṇam 3, Adh. 1, śl. 803—810.
147. T. A. Gopinatha Rao : Op. cit.