सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 287, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 287

द्वितीयोऽध्यायः
—:०:—
[ जीर्णोद्धारे विशेषः ]
अङ्गप्रत्यङ्गभग्नां तु मूर्त्तिं धीमान् विसर्जयेत् ।
नखाभरणमालास्त्रभग्नां तां न विवर्जयेत् ॥ १ ॥
[ एकत्र देवपूजानिषेधः ]
गृहे लिङ्गद्वयं नार्च्यं गणेशत्रयमेव च ।
शक्तित्रयं तथा शङ्खं (१)मच्छादिदशकाङ्कितम् ॥ २ ॥
द्वे चक्रे द्वारकायास्तु शालिग्रामद्वयं तथा ।
द्वौ शङ्खौ नार्चयेत् तद्वत् सूर्ययुग्मं तथैव च ॥ ६ ॥
तेषां तु पूजनान्नूनमुद्वेगं प्राप्नुयाद् गृही ।
[ तुलस्या पूजानिषेधः ]
तुलस्या नार्चयेच्चण्डीं (२)दीपं सूर्यं गणेश्वरम् ॥ ४ ॥
ब्रह्मादीनाञ्च देवानां देवीनाञ्च यथाक्रमम् ।
आयुधानि तथा वर्णं वाहनं कथयाम्यथ ॥ ५ ॥
ऋग्वेदादिप्रभेदेन कृतादियुगभेदतः ।
विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ ६ ॥
दक्षिणाधःकरात् सृष्ट्या जयमालां तथा (३)श्रुतम् ।
पुस्तं कमण्डलुं धत्ते सकूर्चः कमलासनः ॥ ७ ॥
इति कमलासनः ।
अक्षसूत्रं पुस्तकञ्च धत्ते चैव कमण्डलुम् ।
चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे हिता ॥ ८ ॥
[ इति सावित्री ]

(१) ‘मत्स्यादी’ति स्यात् । (२) ‘नैव’ इति स्यात् । (३) ‘श्रुचम्’ इति स्यात् ।