सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 254, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 254

अष्टमोऽध्यायः १६७
[ नृत्ये आस्यादीनां प्रातिस्विकविषयनिरूपणम् ]
(अङ्गे?आस्ये)नाऽऽलम्बयेद् गीतं हस्तेनार्थं प्रकल्पयेत् ।
चक्षुर्भ्यां च भवेद् भावः पादाभ्यां तालनिर्णयः ॥ १२० ॥
[ ग्रन्थकृतः स्वाहङ्कारपरिहारः ]
श्रीविश्वकर्मणः शास्त्रे पुराणभरतागमे ।
रूपसंख्याऽप्यनेकाऽस्ति लेशोऽयं लिखितस्ततः ॥ १२१ ॥
[ ग्रन्थसमाप्तिः ]
यस्या नो कलयन्ति रूपमखिलं ब्रह्मादयो देवता
गौर्या विश्वमिदं विचित्ररचनाश्चर्यं समुत्पद्यते ।
प्रोक्तं रसानामिदमत्र लक्ष्म दृशाञ्च संक्षिप्ततया तदेतत् ।
विज्ञाय चित्रं लिखतां नराणां न संशयं याति मनः कदाचित् ॥
( अ० ८२, श्लो० ३५ ) इति ।
१२० । पुनरपि नृत्यादौ विशेषमाह—आस्येनेति । अत्र यथाश्रुतपाठे सामान्यवाचिना
अङ्गशब्देन अङ्गविशेषो मुखं लक्ष्यते, यथा नदीविशेषजोऽपि गाङ्गेयः शान्तनवो नदीज इति ।
श्लोकः स्पष्टार्थः । समराङ्गणसूत्रधारे—
हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् ।
सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥
इति ( अ० ८२, श्लो० ३३-३४ ),
आङ्गिके चैव चित्रे * * * साधनमुच्यते ।
( भवेदन्नादत ? ) स्तस्मादनयोश्चित्रमाश्रितम् ॥
इति यथोक्तमर्थमनुवदन्निव तस्य चित्रोपकारकत्वमपि व्यादिदेश । नन्दिकेश्वरविरचिते अभिनय-
दर्पणे ( Calcutta Sanskrit Series, No. V. )—
चक्षुर्भ्यां दर्शयेद् भावं पादाभ्यां तालमादिशेत्'
इति द्वितीयचरणपरिवृत्त्याऽयं श्लोकः, अविकलः पूर्वश्लोकश्च वर्त्तते ।
१२१ । सम्प्रति ग्रन्थकर्त्ता स्वकृतेरसमग्रत्वमन्यच्छायायोनित्वञ्च प्रत्याययति—श्रीविश्वकर्मण
इति । पुराणे मात्स्याग्नेयविष्णुधर्मोत्तरादौ भरतागमे भरतकृतनाट्यसूत्रादौ च रूपसंख्याऽपि,
न केवलं नृत्यगीतादिगतविशेष इत्यपेरर्थः, अनेका अस्ति, मया तु ततो लेशोऽल्पमात्रं
लिखितः । आस्तां नाम नृत्यगीतादिविषयके विशेषे न्यूनता तत्रास्माकमनधिकारात, यत्त्वस्म-
दधिकृतायां रूपसंख्यायामप्यसामर्थ्यं तदेव मां दुःखाकरोतीति भावः ।