सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 249, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 249

१६२ देवतामूर्त्तिप्रकरणम्
चण्डिकायतनोक्ता (च ? नां) कथयिष्याम्यनुक्रमम् ।
वेतालो वरटश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥ ६५ ॥
धूम्रकः कण्ठदकश्चैव रक्ताक्षश्च सुलोचनः ।
दंष्ट्राननश्च विकटः कोपस्फुरदशनोज्ज्वलः ॥ ६६ ॥
तर्जनी खट्वाङ्गं चैवोर्द्ध्वं स्या (स्याद्) डमरुदण्डकौ ।
वेतालस्तु समाख्यातः सव्यापसव्ये करटकः ॥ ६७ ॥
अभयं खड्गखेटञ्च दण्डं पिङ्गललोचनः ।
अभयापसव्ययोगेन भवेद् भृकुटिनामतः ॥ ६८ ॥
तर्जनीवज्राङ्कुशदण्डं धूम्रको नाम कीर्त्तितः ।
सव्यापसव्ययोगे च भवेत् (कक ? ककु)द्नामकः ॥ ६६ ॥
तर्जनीत्रिशूलहस्तं खट्वाङ्गं दण्डमेव च ।
रक्ताक्षो नाम तस्यैव सव्यापसव्ये सुलोचनः ॥ १०० ॥
इति चण्डिकाप्रतीहाराः ।
दिव्याम्बुजकरा (कुर्या ?कार्या) सर्वाभरणभूषिता ।
गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ॥ १०१ ॥
प्रथमा चतुर्भुजा कार्या देवी सिंहासने शुभा ।
सिंहासनं प्रकर्त्तव्यं कमलं चारु(व ? क)र्णिकम् ॥ १०२ ॥
९६। आयुधप्रतिपादनावसरे शततमश्लोके 'ककुद्' इति नामदर्शनादिहापि तदेव
नाम युक्तमिति 'धूम्रकः ककुदश्चैव' इति पाठः स्यात् ।
वेता (ल ? लः) करटश्चैव पिङ्गाक्षो भृकुटिस्तथा ।
सूत्रकः ककुदश्चैव रक्ताक्षश्च सुलोचनः ॥ ( अ० ५, श्लो० ५१-५२ )
इति रूपमण्डने नाम्नो वैलक्षण्यमुपलभ्यते ।
९७। करटक इति पूर्वं 'वेतालो वरटश्चैव' इति घोषवद्वर्णनिमित्तक-विसर्गसन्धिरदर्श-
नात् सन्नपि रूपमण्डने 'करट' इति पाठो नोपात्तः, अत्र पुनः 'करट' इति दृश्यते । परमत्र
साधकबाधकप्रमाणाभावादेकाक्षरमात्रकृता 'वरटे'ति शुद्धिः शक्यसम्पादनेति मन्यामहे ।