रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 207, कुल 335 में से
संदर्भ में पढ़ें१२० देवतामूर्त्तिप्रकरणम्
[ दुष्टलिङ्गलक्षणम् ]
ऊर्द्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ।
दीर्घं वा सन्धिरे(षा?खा)भिर्युक्तं काकपदा(दिवै?दिकैः)॥१००॥
[ स्फाटिकलिङ्गमानम् ]
एकाद्वित्र्यङ्गुला वृद्धिर्हानिरायादिशुद्धये ।
मात्रादि स्फाटिकं लिङ्गं यावदेकादशाङ्गुलम् ॥१०१॥
इति दारुजानि स्फाटिकानि (च) ।
[ अथ बाणलिङ्गानि ]
[ तत्र लिङ्गोत्पत्तिस्थानानि ]
कुरुक्षेत्रे च लिङ्गानि सरस्वत्यां तथा पुनः ।
वाराणस्यां प्रयागे तु गङ्गायाः सङ्गमेषु च ॥ १०२ ॥
यानि वै नर्मदायाश्च अन्तर्वेदे च सङ्गमे ।
केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ १०३ ॥
विस्तरार्द्धे कक्कुटाण्डं त्रिभागैकभागे अर्द्धचन्द्रकम् अष्टांशीकृतस्य सार्द्धत्र्यंशेन तुल्यं बुद्धदाकृति शिरः
स्यादित्यर्थः । एवं पञ्चधा वर्त्तनं भवेत् । तथाच शिल्परत्ने—
छत्राभं त्रपुषाकारं कक्कुटाण्डनिभं तथा ।
अर्द्धेन्दुसदृशं चाथ बुद्बुदाभन्तु पञ्चमम् ॥
सर्वेषामपि लिङ्गानां शिरसो वर्त्तनक्रमम् । इति ।
( उ० अ० २, श्लो० ११६-११७ ) ।
१०० । सम्प्रति दुष्टलिङ्गान्याह—ऊर्द्ध्वाधोमध्यहीनमिति । ग्रन्थान्तरेऽस्य 'लक्षणोद्धार'
इति शिरोनाम दृश्यते । तस्य च वर्जनीयत्वमाह—
'शिरसो वर्त्तनोपेतं लक्षणोद्धारवर्जितम्' इति
( काश्यप० अ० ४९, श्लो० १४ ) ।
एतच्च स्फाटिकादिलिङ्गविषयमिति सम्भाव्यते, तत्रैवैतेषां दोषाणां दृष्टत्वात् । तथाच शिल्परत्ने
रत्नदोषमधिकृत्य—
रेखा बिन्दुः कलङ्कश्च काकाङ्घ्रिक्षतधूलयः ।
तुषारत्रासरन्ध्राणि यत्नादु रत्नेषु वर्जयेत् । इति ।
( उ० भा० अ० १, श्लो० ३५-३६ ) ।