रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 179, कुल 335 में से
संदर्भ में पढ़ें६२ देवतामूर्तिप्रकरणम्
देवदेवस्तु कर्त्तव्यस्तत्र सुप्तश्चतुर्भुजः ।
एकपादोऽस्य कर्त्तव्यः शेषभोगाङ्कसंस्थितः ॥ ८७ ॥
एको भुजस्तु कर्त्तव्य(मति ? स्तस्य) जानुप्रसा(धि?रि)तः ।
कर्त्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः ॥ ८८ ॥
तथैवान्यकरः कार्यों देवशत्रु(शरा ? शिरो)धरः ।
सन्तानमञ्जरीधारी तथा चैवापरो भवेत् ॥ ८९ ॥
नाभीसर(स?सि)सम्भूते कमले तस्य याद(वः ? व) ।
सर्वभूमिमयो देवः प्राक् कार्यस्तु पितामहः ।
(नील ? नाल )लग्नौ च कर्त्तव्यौ पद्मस्य मधुकैटभौ ॥६०॥
इति जलशायी ।
वैकुण्ठञ्च प्रवक्ष्यामि (धृष्ट?साष्ट)बाहुं महाबलम् ।
तार्क्ष्यासनश्चतुर्वक्त्रं कर्त्तव्यं शान्तिमिच्छता ॥ ६१ ॥
गदाखड्गौ बाणच(क्रौ ? क्रे) दक्षिणास्त्रचतुष्टयम् ।
शङ्खखेटधनुःपद्मं (वामदंष्ट्रा?वामे दद्याच्)चतुष्टयम् ॥ ६२ ॥
अग्रतः पुरुषाकारं नारसिंहञ्च दक्षिणे ।
अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥ ६३ ॥
इति वैकुण्ठः ।
९० । विष्णुधर्मोत्तरे ( ख० ३, अ० ८१ ) पद्मनाभीयत्वेनेदं लक्षणमुपलभ्यते, 'यादव'
इति तत्र बोद्धव्यस्य भगवतः सम्बोधनमिहाविकलमुद्रितमिति ज्ञातव्यम् ।
९१ । शान्तिमिच्छता कर्त्तव्यमष्टबाहुं वैकुण्ठं प्रवक्ष्यामीत्यन्वयो व्याकरणसंस्काराद्यातः ।
'वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः ।
तार्क्ष्यासनश्चतुर्वक्त्रः कर्तव्यः शान्तिमिच्छता ॥'
इति रूपमण्डने ( ३ अ० ९२ श्लो० ) ।
९३ । अग्रत इति । एतच्च वैकुण्ठस्य चतुर्णामानानां विवरणम् । तत्र अग्रत इति
अग्रवर्त्ति मुखं पुरुषाकारं पुरुषमुखतुल्यम्, दक्षिणं मुखं नारसिंहं नरसिंहमुखतुल्यं सिंहास्यवदिति
यावत, नरसिंहलक्षणे 'रौद्रसिंहमुखेक्षणम्' ( ७७ श्लो० ) इत्युक्तेः । अपरमिति पश्चान्मुख-
मित्यर्थः । वाराहास्यमिति शूक राननम् ।