रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 176, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ८६
कृष्णाजिनोपवीतः स्याच्छत्री (कृत ? धृत)कमण्डलुः ।
कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः ॥ ७१ ॥
इति वामनः ।
रामस्तु द्विभुजो रम्यः शरचापधरः प्रभुः ।
इति रामः ।
(महा ? नृ)वराहं प्रवक्ष्यामि शूकरास्येन शोभनम् ।
गदापद्मधरं धात्रीं दंष्ट्राग्रेण समुद्धृताम् ॥ ७२ ॥
बिभ्रा(णा ? णं) कूर्परे वामे विस्मयोत्फुल्ललोचनः ।
नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ७३ ॥
दक्षिणं कटिसंस्थञ्च बाहुं तस्य प्रकल्पयेत् ।
कूर्मपृष्ठे पदञ्चैकमन्यन्नागेन्द्रमूर्धनि ॥ ७४ ॥
शेषश्चतुर्भुजः कार्यस्तथैव रचिताञ्जलिः ।
कर्त्तव्यौ (शिल ? शीर)मुषलौ करयोस्तस्य चोर्ध्वयोः ॥७५॥
७५ । शेष इति । 'रचिताञ्जलिरी'त्यनेन नेदं स्वतन्त्रस्य शेषस्य लक्षणमपि तु नृवराहाङ्ग-
तया तदग्रे कर्तव्यस्येत्यायाति । अन्यथा नृवराहलक्षणमभिधायान्तरा शेषं लक्षयतः
पुनर्नृवराहप्रकारान्तरकथनमनुपपन्नं स्यात् । शिल्परत्ने शेषलक्षणमपहायैव नृवराहस्य लक्षणद्वितयं
लिखितं दृश्यते ( शिल्प० उ० २५ अ० ११२-११६ श्लो० ) ।
मत्स्यपुराणे पुनः किञ्चिद्विलक्षणमेव नृवराहलक्षणमिति तदत्र प्रदर्श्यते—
महावराहं वक्ष्यामि पद्महस्तं गदाधरम् ॥
तीक्ष्णदंष्ट्राग्रघोणास्यं मेदिनीवामकूर्परम् ।
दंष्ट्राग्रेणोद्धृतां दान्तां धरणीमुत्पलान्विताम् ॥
विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् ।
दक्षिणं कटि(हस्त ? संस्थ)ञ्च करं तस्याः प्रकल्पयेत् ॥
कूर्भोपरि तथा पादमेकं नागेन्द्रमूर्धनि ।
संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥ इति ।
( मत्स्य० २६० अ० २८-३१ श्लो० ) ।
देवता—१२