सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 146, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 146

चतुर्थोऽध्यायः
—:०:—
अक्षसूत्रं पुस्तकञ्च कमण्डलुवरान्वितः ।
विश्वकर्मा चतुर्हस्तस्त्रिनेत्रश्चन्द्रशेखरः ॥ १ ॥
इति विश्वकर्मा ।
ऋग्वेदादिप्रभेदोक्ता( देन ? ) कृतादियुगभेदतः ।
विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ २ ॥
अक्षसूत्रं करे दत्ते शुचिस्तस्या ( स्यो ? )र्द्धतः स्थिता ।
स्याद् वामे पुस्तकं हस्ते तस्या(स्यो ?)र्द्धे च कमण्डलुः ॥३
कमलासननामानं (माद्यं ? ) सर्ववर्णे हितप्रदः ।
कर्तृकारापकैः(?) सार्द्धं लोहितः कमलासनः ॥ ४ ॥
इति कमलासनः ।
१ । अयमध्यायो ब्रह्मादीनां देवानामायुधवर्णवाहनादिनिर्णयार्थं प्रवृत्त इति ज्ञायते
एतद्ग्रन्थकृत्कृत्यन्तराद्रूपमण्डनात् । तथा च—
ब्रह्मादीनाञ्च देवानां देवीनाञ्च यथाक्रमम् ।
आयुधानि तथा वर्णं वाहनं कथयाम्यथ ॥ ( इति अ० २,९ श्लो०)
अस्य ग्रन्थस्य शिल्पशास्त्रत्वात् तत्कर्त्तृत्वेनाभ्यर्हितस्याऽऽदौ विश्वकर्मणो रूपं निर्दिशति—अक्ष-
सूत्रमिति । अस्मदुपलब्धेषु शिल्पशास्त्रेषु ऋते रूपमण्डनमृते च प्रकृतग्रन्थं न विश्वकर्मणो
रूपमुपनिबद्धमुपलब्धम् । रूपमण्डने पुनः किञ्चिदु विलक्षणमेव लक्षणमस्माद् ग्रन्थात् । तथा च—
विश्वकर्मा चतुर्बाहुरक्षमालाञ्च पुस्तकम् ।
कम्बां (कम्बुं ? ) कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥ इति ।
( अ० २, १० श्लो० )
२-४ । एकस्यैव ब्रह्मणो नामभेदेन चत्वारि रूपाणि निरूपयिष्यन्नादौ कमलासनं वक्तुं