रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 144, कुल 335 में से
संदर्भ में पढ़ेंतृतीयोऽध्यायः ५७
एते शिवाश्रये स्थाप्या दृष्टिवेधविवर्जिताः ।
दृष्टियाताहितं यच्च पुराघं न प्ररोहति ॥२३॥
[ देवतास्थापने दिङ्निर्णयः ]
पूर्वापरास्यं देवानां मुखं नो दक्षिणोत्तरम् ।
ब्रह्मा विष्णुः शिवार्केन्द्रा गुहः पूर्वपराङ्मुखः ॥२४॥
नगराभिमुखाः श्रेष्ठा मध्ये बाह्ये च देवताः ।
शिवब्रह्मजिना विष्णुः सर्वाशाभिमुखाः शुभाः ॥२५॥
गणेशो भैरवश्चण्डी नकुलीशो ग्रहास्तथा ।
भूताद्या धनदाश्चैव दक्षिणास्याः शुभाः स्मृताः ॥२६॥
मातृणां सदनं कार्यं दक्षिणोत्तरदिङ्मुखम् ।
हनुमान् वानरश्रेष्ठो नैर्ऋतास्यो विदिङ्मुखः ॥२७॥
२३ । एत इति । दृष्टिवेधविवर्जिता इति ब्रह्मविष्ण्वादीनां परस्परदृष्टिवेधेन हीनाः, शिव-
दृष्टिवेधेन वा । 'दृष्टियाताहितं यच्च' इत्यत्र 'दृष्टिपातहिता यन्न' इति स्यात् । तथा सति यन्न
देवा दृष्टिपातवशाद् हितास्तत्र स्थाने पुराघं नगरस्य पापम् अमङ्गलमित्यर्थः, न प्ररोहति
न प्रोद्भवतीत्यर्थः ।
२४ । देवानां मुखं पूर्वापरास्यं पूर्वदिक्स्थं पश्चिमदिक्स्थं वा कुर्यादिति शेषः । दक्षिणो-
त्तरं दक्षिणोत्तरदिक्स्थं न कुर्यात् । अत्र पूर्वादिशब्दो दिग्द्वये लाक्षणिकः । ब्रह्मेति । एतच्च
विशेषाभिधानं मतान्तर इति ज्ञेयम् । मत्स्यपुराणे पूर्वोत्तरमुखत्वस्योक्तत्वात् । तथा च—
वास्तुदेवादिप्रतिमालक्षणं प्रवदामि ते ।
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम् ॥ इति ( अ० ५४, १ श्लो० )
यथा तथा वा भवतु सर्वथा विसंष्ठुलोऽयं श्लोकः । अस्य प्रकृतपाठोऽनुसन्धेयः ।
२५ । नगरेति । मध्ये वास्तुमध्ये, बाह्ये वास्तुबहिर्भागे च प्रतिष्ठाप्या देवता नगराभि-
मुखाः प्रशस्यन्ते । पूर्वापरास्यमिति यदुक्तं तत्र मतान्तरं दर्शयति—शिवेत्यादि । सर्वाशाभि-
मुखाः सर्वदिङ्मुखाः । अत्र पूर्वं पूर्वपराङ्मुखत्वकथनाद् ब्रह्मविष्णुशिवग्रहणं मतान्तरद्योत-
नार्थम्, जिनग्रहणन्तु न तथा, पूर्वमनुल्लेखेन कस्मिन्नपि मते तस्य सर्वाशाभिमुखत्वस्याप्राप्ते-
र्विधित्वाव्याघातात् ।
२७ । मातृणामिति । एतेन मातरो दक्षिणदिङ्मुखा उत्तरदिङ्मुखा वा कार्या इति
[