रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 137, कुल 335 में से
संदर्भ में पढ़ें५० देवतामूर्त्तिप्रकरणम्
[ मध्यमाष्टतालेऽवयवमानम् ]
अष्टसार्द्धं प्रवक्ष्यामि गीष्पतेस्ताललक्षणम् ।
केशान्तश्च त्रिमात्रन्तु वक्त्रं स्याद्द्वादशाङ्गुलम् ॥२२॥
ग्रीवा च अ(त्र्य?)ङ्गुला कार्या हृदयं नवभिस्तथा ।
त्रयोदश भवेन्मध्यं तालेन नाभिमेढ्रके ॥२३॥
द्वाविंशत्या भवेदूरूर्जानु चैव त्रिमात्रकम् ।
जङ्घे ऊरुसमे प्रोक्ते त्र्यङ्गुलः पाद एव च ॥२४॥
[ नवमतालेऽवयवमानम् ]
नवतालं प्रवक्ष्यामि ब्रह्माद्या देवता यथा ।
केशान्तश्च त्रिमात्रन्तु कर्तव्यं देवरूपकम् ॥२५॥
यावन्मानो भवेत्तालो विभजेद्भवविभागकैः ।
सूर्य(१२)राम(२)दशा(२०)र्का(१२)ब्धि (४)वसु(८)जैन(२४)
युगा(४)र्हताः(२४) ॥२६॥
वेदा(४) वक्त्रगलौ वक्षो नाभिस्तूदरगुह्यकम् ।
तथोरू जानुनी जङ्घे चरणौ च यथाक्रमे(क्रमम्) ॥२७॥
विस्तरस्तेन(विस्तारः स्तन)गर्भे च द्वादशाङ्गुलमीरितम् ।
तद्बाह्ये वेदवेदांशे कक्षे एकान्तरे ततः ॥२८॥
सप्तसप्ताङ्गुलौ बाहू दीर्घ(दैर्घ्ये) स्यात् षोडशाङ्गुलौ ।
करोऽष्टादशमात्रे(त्रः?) च विस्तरे(विस्तारो)ऽग्रे गुणाङ्गुलः ॥२९॥
दीर्घे सूर्याङ्गुलः पाणिविस्तरे पञ्चमात्रकः ।
नाभिः सूर्याङ्गुलो व्यासे कटिः प्रोक्ता जिनाङ्गुला ॥३०॥
२८-२९। स्तनगर्भे स्तनयोरन्तरे । ईरितं कथितम् । तद्बाह्ये स्तनगर्भाद् बहिः कक्षे
कक्षद्वयं वेदवेदांशे अष्टाङ्गुले । तत एकान्तरे एकमात्रव्यवधाने बाहू सप्तसप्ताङ्गुलौ विस्तारे एकः
सप्ताङ्गुलस्तथा अन्यश्च सप्ताङ्गुलः । करमानान्तरमाह-करोऽष्टादशमात्रः, अग्रे अग्रस्य विस्तारः
गुणाङ्गुलः षडङ्गुलः ।