सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 135, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 135

४८ देवतामूर्तिप्रकरणम्
दशतालैर्भवेद्रामो बलिवैरोचन(नि?)स्तथा ।
सिद्धाश्चैव जितेन्द्राश्च ऊर्द्वांस्ते च प्रकीर्तिताः ॥ ९ ॥
ताला एकादश स्कन्दो हनुमांश्चण्डिका तथा ।
भूतानाञ्च समस्तानामेष तालः प्रकीर्तितः ॥ १० ॥
ताला द्वादश वेताला राक्षसाश्च त्रयोदश ।
पिशाचाः क्रूरकर्माणः शस्यन्ते मुकुटैर्विना ॥ ११ ॥
तालाश्चतुर्दश प्रोक्ता दैत्येन्द्रा मुकुटैर्युताः ।
तिथ्या समानतालैश्च भृगुरूपं प्रकारयेत् ॥ १२ ॥
अत ऊर्ध्वं न कर्तव्यं प्रमाणं कथयाम्यतः ।
[ तालानुसारेणावयवमानम्, तत्र सप्ततालेऽवयवमाननिरूपणम् ]
सप्ततालं प्रवक्ष्यामि केशान्ते च त्रिमात्रकम् ॥ १३ ॥
१०–१२। एकादशादिपञ्चदशान्तास्ताला नान्यत्रोपलभ्यन्ते ।
रूपमण्डने तु—
'कलांशाः क्रूरदेवाः स्युरत ऊर्ध्वं न कारयेत्' । ( अ० १, २३ श्लो० )
इत्यनेन षोडश तालाः क्रूरदेवानां मानमित्युक्तम् । यच्च काश्यपशिल्पे—
एकादिनवहस्तान्तं नवधा हस्तमानकम् ।
तालादिनवतालान्तं तथा नवविधं भवेत् ॥ ( अ० ५०, ३४ श्लो० )
इति नवतालान्तं तालमानमुक्तं तत्तु सामान्यत इति ज्ञेयम् । एवञ्च सत्यामपि पूर्वार्द्धे हस्त-
मानस्य नवधात्वोक्तौ यत् पूर्वम्—
दशादिकरवृद्ध्या तु षट्त्रिंशत् प्रतिमाः पृथक् ।
बाणवेदकरान् यावच्चतुष्क्यां पूजयेत् सुधीः ॥ ( अ० १, १९ श्लो० )
इत्युक्तम्, तस्यापि विशेषान्तःपातान्नासामञ्जस्यमिति ध्येयम् ।
१३। इदानीं कियत्तालानां प्रतिमानां कियन्त्यङ्गमानानीति वक्तुमादौ सप्ततालप्रतिमाया
अङ्गमानमाह—सप्ततालमिति । रूपमण्डने तु षट्तालप्रतिमाया अप्यङ्गविभाग उक्तः ; तथा च—
मुखं तालद्वयं तस्य जठरं तत्समं भवेत् ।
गुह्यं वेदाङ्गुलम् ऊरू सप्त जङ्घा च तत्समा ॥