रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 131, कुल 335 में से
संदर्भ में पढ़ें४४ देवतामूर्तिप्रकरणम्
तस्याङ्गुलप्रमाणेन द्व्यङ्गुलं गोलकं भवेत् ।
कला च तत्समा प्रोक्ता द्वाभ्यां तु भागमे(ए?)व च ॥ २ ॥
[ तालमानकथनम् ]
एभिरेव त्रिभिर्भागैस्तालमानं प्रकीर्तितम् ।
एकतालादि वक्ष्यामि यथा भवति नान्यथा ॥ ३ ॥
क्वचिच्च मानाङ्गुलं प्रतिमापरिमाणेनापि निर्णीयते । तथा च-
‘स्वैरङ्गुलप्रमाणैर्द्वादश विस्तीर्णमायतञ्च मुखम्’ (अ० ५७, ४ श्लो०)
इत्यादिबृहत्संहितावचने ‘स्वै’रित्यस्य विवरणप्रसङ्गेनोक्तमुत्पलभट्टैः-“यस्मात् काष्ठात्
पाषाणादिकाद्वा प्रतिमा क्रियते तद्दर्ध्यं पीठप्रमाणविवर्जितं द्वादशभागविभक्तं कृत्वा तत्रैको भागो
नवधा कार्यः, सोऽङ्गुलसंज्ञा भवति । यस्मादष्टाधिकमङ्गुलशतं प्रतिमाप्रमाणं वक्ष्यति (अ०
५७, ३० श्लो०) । प्रतिमायाः ‘स्वैरात्मीयैरङ्गुलप्रमाणैः’ इत्यलं प्रसङ्गादागतस्य प्रपञ्चनेन ।
२। तस्येति । असमर्थमपीदं पदमगतिकतया ‘अङ्गुलप्रमाणेने’त्यस्यैकदेशेनाङ्गुलपदेन सामा-
नाधिकरण्येनान्वीयते । तथा च तस्य प्रक्रान्तस्याङ्गुलस्य प्रमाणेनेत्यर्थः । तत्समेति गोलकसमा
इति । द्व्यङ्गुलमानेत्यर्थः । द्वाभ्यामिति कलाभ्यां गोलकाभ्यां वा भागो भवति, अतस्तस्य
चतुरङ्गुलं मानमित्यर्थः । तदुक्तं समराङ्गणसूत्रधारे-
द्व्यङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते ।
द्वे कले गोलकौ ( वाहौ ? वा द्वौ ) भागो मानेन तेन तु ॥ (अ० ७५, ३ श्लो०)
३ । एभिरिति । एतादृशैर्भागैस्तालमानम् एकतालस्य परिमाणं भवतीति शेषः । एवञ्च
द्वादशभिरङ्गुलैरेकतालो भवतीत्यर्थः । तदुक्तं शुक्रनीतिसारे-
स्वस्वमुष्टेश्चतुर्थोऽशो ह्यङ्गुलं परिकीर्त्तितम् ।
तदङ्गुलैर्द्वादशभिर्वेत्तालस्य दीर्घता ॥ इति । (अ० ४, प्र० ४, ८२ श्लो०)
इदमत्र विवेचनीयम्-द्वादशाङ्गुलं तालस्य परिमाणमिति स्थिते दशतालप्रतिमा विंशत्यधिक-
शताङ्गुलपरिमाणा भवति । दशतालप्रतिमा च-
दशतालः स्मृतो रामो बलिवैरोचनिस्तथा ।
वराहो नारसिंहश्च ... ... ... ॥ (अ० २५९, १-२ श्लो०)
इत्यनेन मत्स्यपुराणे उक्ता, ग्रन्थकृता चोपरिष्टात्-
दशतालैर्भवेद्रामो बलिवैरोचन(नि ?)स्तथा ।
सिद्धाश्चैव जितेन्द्राश्च ऊर्ध्वांस्ते च प्रकीर्त्तिताः ॥ (अ० २, ९ श्लो०)
इत्यनेन वक्ष्यते । एषामङ्गुलीसंख्याऽप्युक्ता बृहत्संहितायाम्-
दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् ।
द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥ इति (अ० ५७, ३० श्लो०)