रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 120, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ३३
[ उत्पातानां फलकालः ]
मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥५४॥
[ एतेषां शान्तिः ]
बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः ।
स्नानकुस्तु(सु?)मानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् ॥ ५५ ॥
मधुपर्केण पुरोधा भक्ष्यैर्बलिमिश्च विधिवदुपतिष्ठेत् ।
स्थालीपाकं जुहुयाद् विधिवन्मन्त्रैश्च तल्लिङ्गैः ॥ ५६ ॥
[ शान्तिफलम् ]
इति विबुधविचा(का?)रे शान्तयः सप्तरात्रं
द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च ।
विधिवदवनिपालैर्यै (यैः ?) प्रयुक्ता न तेषां
भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥५७॥
५४। रक्षःपिशाचेत्यादि । एवमेवेति । एतदुक्तं भवति—यथा देवकुमारादौ प्रोद्भूतं
वैकृतं नृपस्य कुमारादौ अनिष्टजनकम् एवं रक्षःपिशाचगुह्यकनागानां पुत्रादावपि प्रोद्भूतं वैकृतं
नृपस्य पुत्रादावनिष्ठसाधनमित्यर्थः ।
मासैश्चाप्यष्टाभिरिति । सर्वेषामेव वैकृतानाम् अष्टाभिर्मासैः फलपाको भवतीत्यर्थः ।
अष्टाभिर्मासैरित्यपवर्गे तृतीया, तथा चाष्टमासाभ्यन्तर एवाद्भुतानि फलमुपदर्शयन्तीत्यर्थः । एवञ्च
पूर्वं ‘षण्मासात्त्रिगुणं परम्’ (४७) इति यदुक्तं तदपि साधु सङ्गच्छते । मत्स्यपुराणे—
‘त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद् भयकारकम्’ (अ० २२९, १२श्लो०)
इति वर्षत्रयाभ्यन्तरे फलपाककाल उक्तः । अत एवोत्पलभट्टोऽपि ‘अष्टाभिर्मासैरि’त्यस्य
अष्टाभिर्मासैरतीतैरित्यर्थमाह (बृहत्संहिता, अ० ४५, १४ श्लो०) ।
५५। इदानीम् उत्पातानां शान्तिमाह—बुद्ध्वेति । स्नानं स्नानीयं जलम् । त्र्यहोषित-
स्त्र्यहोपोषितः दिनत्रयं कृतोपवास इत्यर्थः । प्रतिमाम् उत्पन्नविकाराम् ।
५६। मधुपर्केणेति । स्थालीपाकं चरुं तल्लिङ्गैस्तत्तद्देवतानुमापकैर्मन्त्रैस्तत्तद्देवताया
हवनमन्त्रैर्जुहुयात् ।
५७। शान्तिफलं शान्त्यवधिश्चाह—इतीति । विबुधविकारे देवकृतोत्पाते जाते
देवता—५