सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

[ ५ ]
वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥
हे रोहिणि त्वमसि रात्रिकरस्य भार्या
एनं निवारय पतिं सखि दुर्विनीतम् ।
जालान्तरेण मम वासगृहं प्रविश्य
श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥
अविदितसुखदुःखं निर्गुणं वस्तु किंचि-
जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारुण्यघूर्ण-
न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥ २४ ॥
एनं पयोधरयुगं पतितं निरीक्ष्य
खेदं वृथा वहसि किं हरिणायताक्षि ।
स्तब्धो विवेकरहितो जनतापकारी
योऽत्युन्नतः प्रपततीति किमत्र चित्रम् ॥ २५ ॥
अयि मन्मथचूतमञ्जरि
श्रवणव्यायतचारुलोचने ।
अपहृत्य मनः क्व यासि त-
त्किमराजन्यकमत्र राजते ॥ २६ ॥
यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा
विदलति तनुमध्या दीयतां नौ न दोषः ।
पृथुनिबिडकुचाभ्यां वर्त्म पश्यावुरुद्धं
कथयितुमिव नेत्रे कर्णमूले प्रयातः ॥ २७ ॥

[ ६ ]
कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
शोचामि यत्तव किमत्र विरोधमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चै-
रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥
मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते
कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते ।
दोर्भ्यां बन्धनमाशु दन्तदलनं पीनस्तनास्फालनं
दोषश्चेन्ममते कटाक्षविशिखैः शस्त्रैः प्रहारं कुरु ॥ २९ ॥
किं मां निरीक्षसि घटेन कटिस्थितेन
वक्रेण चारुपरिमीलितलोचनेन ।
अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं
नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३० ॥
सत्यं ब्रवीषि मकरध्वजबाणपीड
नाहं त्वदर्पितदृशा परिचिन्तयामि ।
दासोऽद्य मे विघटितस्तव तुल्यरूपः
सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥
इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ॥