ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
(इस पृष्ठ पर कोई पाठ/सामग्री उपलब्ध नहीं है। केवल एक क्षैतिज रेखा अंकित है। / The page is blank with no text.)
॥ नवमोऽध्यायः ॥
निदाघः-
कुत्र वा भवता स्नानं क्रियते नितरां गुरो ।
स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥ ९.१॥
ऋभुः -
आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः ।
इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२॥
परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहं ।
इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३॥
केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहं ।
केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहं ॥ ९.४॥
केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.५॥
केवलं सर्वरूपोऽहं अहन्त्यक्तोऽहमस्म्यहं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.६॥
सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.७॥
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.८॥
सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.९॥
केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.१०॥
केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.११॥
केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.१२॥
सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहं ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं ॥ ९.१३॥
सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१४॥
अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१५॥
सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१६॥
अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१७॥
ब्रह्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१८॥
आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१९॥
आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२०॥
आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२१॥
नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२२॥
नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२३॥
नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२४॥
नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२५॥
रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२६॥
भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२७॥
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२८॥
देहभावविहीनोऽहं चित्तहीनोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.29॥
देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.30॥
सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.31॥
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.32॥
इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.33॥
अहमेवाहमेवास्मि नान्यत् किञ्चिच्च विद्यते ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.34॥
अहमेव महानात्मा अहमेव परायणम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.35॥
अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.36॥
अहमेवान्यवद्भामि अहमेव शरीरवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.37॥
अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.38॥
अहं कालत्रयातीतः अहं वेदैरुपासितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.39॥
अहं शास्त्रेषु निर्णीतः अहं चित्ते व्यवस्थितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.40॥
मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.41॥
मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9.42॥
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ।
निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ 9.43॥
हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्त्यहम् ।
केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४॥
स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः ।
स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९.४५॥
स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे ।
स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥ ९.४६॥
स्वात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये ।
स्वात्मन्येव सुखेनासि इत्येवं मन्त्रमुत्तमम् ॥ ९.४७॥
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे ।
स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९.४८॥
स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् ।
अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९.४९॥
अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९.५०॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९.५१॥
अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९.५२॥
अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९.५३॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९.५४॥
अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९.५५॥
अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९.५६॥
अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९.५७॥
अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९.५८॥
अहं ब्रह्मास्म्यहं मन्त्र आत्मलोकजयप्रदं ।
अहं ब्रह्मास्म्यहं मन्त्र असत्यादि विनाशकं ॥ ९.५९॥
अहं ब्रह्मास्म्यहं मन्त्रः अन्यत् सर्वं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र अप्रतर्क्यसुखप्रदं ॥ ९.६०॥
अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥ ९.६१॥
सप्तकोटि महामन्त्रा जन्मकोटिशतप्रदाः ।
सर्वमन्त्रान् समुत्सृज्य जपमेनं समभ्यसेत् ॥ ९.६२॥
सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति मे ।
मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥ ९.६३॥
यः शृणोति सकृद्यापि ब्रह्मैव भवति स्वयं ।
नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो
यस्मान्नान्यदतोऽन्यदार्थमखिलं तज्जं जगत् सर्वदः ।
यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चे-
दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९.६४॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहंब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥
॥ दशमोऽध्यायः ॥
ऋभुः –
नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः ।
वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१॥
सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।
ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२॥
स्वरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।
आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३॥
सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।
नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४॥
अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।
आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५॥
एकत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।
नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६॥
आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।
सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७॥
परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।
सत्तामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८॥
यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।
शुद्धमोक्षस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.९॥
सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
विज्ञानमात्ररूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१०॥
ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।
तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११॥
त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन ।
शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२॥
अत्यन्ताभावरूपोऽहमहमेव परात्परः ।
अहमेव सुखं नान्यत् इत्येवं ब्रह्मतर्पणम् ॥ १०.१३॥
इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।
निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४॥
साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।
केवलं ब्रह्मभावत्वात् इत्येवं ब्रह्मतर्पणम् ॥ १०.१५॥
अहमेवाविशेषोऽहमहमेव हि नाम कम् ।
अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६॥
इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।
बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७॥
सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।
नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८॥
वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।
चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९॥
सर्वत्र पूर्णावरूपोऽहं सर्वत्र सुखमस्म्यहम् ।
सर्वत्राचिन्त्यरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२०॥
सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।
सर्वशून्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२१॥
सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।
एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२॥
मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।
सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३॥
सर्वदा सत्यरूपोऽहं सर्वदा तुर्यवानहम् ।
तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४॥
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
निर्विकल्पस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२५॥
सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।
ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६॥
ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ १०.२७॥
नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।
सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ १०.२८॥
अहं ब्रह्मोऽस्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
ओंकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९॥
परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३०॥
नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।
चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१॥
न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।
निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२॥
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।
न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३॥
न देहादिस्वरूपोऽस्मि त्रयादिपरिवर्जितः ।
न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४॥
श्रवणं मननं नास्ति निदिध्यासनमेव हि ।
स्वगतं च न मे किञ्चिद् एवं होमं सुदुर्लभम् ॥ १०.३५॥
असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।
अहंकारमसद्विद्धि कालत्रयमprimary-असत् सदा ॥ १०.३६॥
गुणत्रयमद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७॥
श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत् सदा ।
सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८॥
नानारूपमसद्विद्धि नानावर्णमसत् सदा ।
नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९॥
शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।
सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४०॥
गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१॥
सर्वान् भोगानसद्विद्धि यच्चिन्त्यं तदसत् सदा ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२॥
सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत् त्विति ।
सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३॥
जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि ।
मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४॥
दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि ।
कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५॥
दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि ।
सर्वकार्याण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६॥
सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत् परे ।
सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७॥
यथाधर्ममसद्विद्धि पुण्यापुण्यमसत् सदा ।
लाभालाभमसद्विद्धि सदा देहमसत् सदा ॥ १०.४८॥
सदा जयमसद्विद्धि सदा गर्वमसत् सदा ।
मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९॥
शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा ।
रूपं सर्वमसद्विद्धि रसं सर्वमसत् सदा ॥ १०.५०॥
गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत् सदा ।
भूतं भव्यमसद्विद्धि असत् प्रकृतिरुच्यते ॥ १०.५१॥
असदेव सदा सर्वमसदेव भवोद्भवम् ।
असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२॥
शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् ।
शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ १०.५३॥
इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ १०.५४॥
स्कन्दः –
यस्मिन् संच विचेति विश्वमखिलं द्योतन्ति सूर्येन्दवो
विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।
भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत्
जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्भपैः ।
तन्मेऽहोस्ति न किंचिदत्र भगवद्ध्यानान्न किंचित् प्रियम् ॥ १०.५५॥
यः प्राणापानभेदैर्घननधिया धारणापञ्चकाद्यैः
मध्ये विश्वजनस्य सन्निपि शिवो नो दृश्यते सूक्ष्मया ।
बुद्ध्याऽऽदध्यात्तयाऽपि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥ 10.56॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मतर्पणात्महोमाख्य
प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥
॥ एकादशोऽध्यायः ॥
ऋभुः -
ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् ।
आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१॥
अहं ब्रह्मवदेवेदमहमात्मा न संशयः ।
चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२॥
चिदात्माऽहं परात्माऽहं निर्गुणोऽहं परात्परः ।
इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ११.३॥
देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.४॥
आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ११.५॥
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ११.६॥
यस्य किंचिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ११.७॥
चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् ।
न स्मरत्यन्यकलनं स जीवन्मुक्त उच्यते ॥ ११.८॥
सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः ।
सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ११.९॥
परमात्मपरा नित्यं परमात्मेति निश्चितः ।
आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ ११.१०॥
शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः ।
नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११.११॥
एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः ।
किंचिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ ११.१२॥
न मे चित्तं न मे बुद्धिर्नाहंकारो न चेन्द्रियः ।
केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ ११.१३॥
न मे दोषो न मे देहो न मे प्राणो न मे क्वचित् ।
दृढनिश्चयवान् योऽन्तः स जीवन्मुक्त उच्यते ॥ 11.14॥
न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहं ।
न मे किञ्चिदिदं वापि स जीवन्मुक्त उच्यते ॥ 11.15॥
न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् ।
यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ 11.16॥
न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः ।
न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ 11.17॥
न मे देहो न मे लिङ्गं न मे कारणमेव च ।
न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.18॥
इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ।
ब्रह्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ 11.19॥
न मे किञ्चिन्न मे कश्चिन्न मे कश्चित् क्वचिज्जगत् ।
अहमेवेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ 11.20॥
न मे कालो न मे देशो न मे वस्तु न मे स्थितिः ।
न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ 11.21॥
न मे तीर्थं न मे सेवा न मे देवो न मे स्थलं ।
न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ 11.22॥
न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदं ।
न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.23॥
न मे पुण्यं न मे पापं न मे कायं न मे शुभं ।
न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11.24॥
न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः ।
न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ 11.25॥
न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्वचित् ।
न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ 11.26॥
न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः ।
न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.27॥
न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः ।
न मे श्रेष्ठं क्वचिद्यस्तु स जीवन्मुक्त उच्यते ॥ 11.28॥
न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः ।
न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ 11.29॥
न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् ।
न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.30॥
न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलं ।
न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.31॥
न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः ।
न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.32॥
न मे शीतं न मे चोष्णं न मे मोहो न मे जपः ।
न मे संध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.33॥
न मे जपो न मे मन्त्रो न मे होमो न मे निशा ।
न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.34॥
न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा ।
न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.35॥
न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः ।
न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.36॥
न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ 11.37॥
न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ।
न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ 11.38॥
न मे भोगो न मे रोगो न मे योगो न मे लयः ।
न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.39॥
न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः ।
अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.40॥
अध्यारोप्यं न मे किंचिदपवादो न मे क्वचित् ।
न मे किंचिदहं यत्तु स जीवन्मुक्त उच्यते ॥ 11.41॥
न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु ।
न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ 11.42॥
न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयं ।
न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.43॥
न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् ।
न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ 11.44॥
न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् ।
न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ 11.45॥
न मे तापं न मे लोभो न मे गौण न मे यशः ।
ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.46॥
न मे भ्रांतिर्न मे ज्ञानं न मे गुह्यं न मे कुलं ।
न मे किंचिदिति ध्यायन् स जीवन्मुक्त उच्यते ॥ 11.47॥
न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः ।
न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.48॥
न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखं ।
न मे न्यूनं क्वचिद्यस्तु स जीवन्मुक्त उच्यते ॥ 11.49॥
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयं ।
न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11.50॥
न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहं ।
न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ 11.51॥
न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभं ।
न मे न मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ 11.52॥
न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा ।
न मे किंचिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ 11.53॥
न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलं ।
न मे दूष्यं क्वचिद्यस्तु स जीवन्मुक्त उच्यते ॥ 11.54॥
न मेऽभ्यासो न मे विद्या न मे शांतिर्न मे दमः ।
न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11.55॥
न मे शल्यं न मे शंका न मे सुप्तिर्न मे मनः ।
न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ 11.56॥
न मे जरा न मे बाल्यं न मे यौवनमण्यपि ।
न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ 11.57॥
न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः ।
न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ 11.58॥
अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११.५९॥
ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः ।
स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११.६०॥
स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः ।
स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११.६१॥
स्वात्मानन्दं स्वयं भुङ्क्त्वे स्वात्मराज्ये स्वयं वसे ।
स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६२॥
स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः ।
स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६३॥
जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ ११.६४॥
ये वेदवादविधिकल्पितभेदबुद्ध्या
पुण्याभिसन्धितधिया परिकर्मयन्तः ।
देहं स्वकीयमतिदुःखपरं पराभि-
स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥
कः सन्तरेत भवसागरमेतदुद्य-
त्तरङ्गसदृशं जनिमृत्यु रूपम् ।
ईशार्चनाविधिसुबोधितभेदहीन-
ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम
एकादशोऽध्यायः ॥
॥ द्वादशोऽध्यायः ॥
ऋभुः -
देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् ।
त्यक्तात्त्यक्तं न स्मरति विदेहोन्मुक्त एव सः ॥ १२.१॥
ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी ।
स्वस्वरूपो महामौनी विदेहोन्मुक्त एव सः ॥ १२.२॥
सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः ।
एकात्ववर्जितः साक्षी विदेहोन्मुक्त एव सः ॥ १२.३॥
लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः ।
तूष्णीमात्मा स्वभावात्मा विदेहोन्मुक्त एव सः ॥ १२.४॥
शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः ।
अजात्मा चामृतात्मा हि विदेहोन्मुक्त एव सः ॥ १२.५॥
आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः ।
इत्येवमिति निध्यायी विदेहोन्मुक्त एव सः ॥ १२.६॥
ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते ।
चिन्मात्रेणैव यस्तिष्ठेद्विदेहोन्मुक्त एव सः ॥ १२.७॥
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः ।
आनन्दभूरिदेहास्तु विदेहोन्मुक्त एव सः ॥ १२.८॥
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
अहं ब्रह्मास्मि नान्योऽस्मि विदेहोन्मुक्त एव सः ॥ १२.९॥
किंचित् क्वचित् कदाचिच्च आत्मानं न स्मरत्यसौ ।
स्वस्वभावेन यस्तिष्ठेत् विदेहोन्मुक्त एव सः ॥ १२.१०॥
अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते ।
स्थास्यामीत्यपि यो युक्तो विदेहोन्मुक्त एव सः ॥ १२.११॥
तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किंचन ।
अहमर्थपरित्यक्तो विदेहोन्मुक्त एव सः ॥ १२.१२॥
परमात्मा गुणातीतः सर्वात्मापि न संमतः ।
सर्वभावान्महात्मा यो विदेहोन्मुक्त एव सः ॥ १२.१३॥
कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् ।
किञ्चिद्भेदं न यस्यास्ति विदेहमुक्त एव सः ॥ १२.१४ ॥
अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते ।
अत्यन्तसुखमात्रोऽहं विदेहमुक्त एव सः ॥ १२.१५ ॥
निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः ।
शून्यात्मा सूक्ष्मरूपो यो विदेहमुक्त एव सः ॥ १२.१६ ॥
विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः ।
देवात्मा देवहीनो यो विदेहमुक्त एव सः ॥ १२.१७ ॥
मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः ।
केवलात्मा परात्मा च विदेहमुक्त एव सः ॥ १२.१८ ॥
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
सर्वेषामिति युक्तोक्ति विदेहमुक्त एव सः ॥ १२.१९ ॥
सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः ।
स्थास्यामीति न यस्यान्तो विदेहमुक्त एव सः ॥ १२.२० ॥
सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा ।
प्रबुद्धो नास्ति यस्यान्तो विदेहमुक्त एव सः ॥ १२.२१ ॥
केवलं परमात्मा यः केवलं ज्ञानविग्रहः ।
सत्तामात्रस्वरूपो यो विदेहमुक्त एव सः ॥ १२.२२ ॥
जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति ।
ब्रह्मैवेति न यस्यान्तो विदेहमुक्त एव सः ॥ १२.२३ ॥
ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् ।
इत्येवं निश्चयो भावः विदेहमुक्त एव सः ॥ १२.२४ ॥
इदं चैतन्यमेवेति अहं चैतन्यमेव हि ।
इति निश्चयशून्यो यो विदेहमुक्त एव सः ॥ १२.२५ ॥
चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः ।
सुखमात्रान्तरङ्गो यो विदेहमुक्त एव सः ॥ १२.२६ ॥
अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः ।
तुर्यातीतः परानन्दो विदेहमुक्त एव सः ॥ १२.२७ ॥
नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः ।
परब्रह्मस्वरूपात्मा विदेहमुक्त एव सः ॥ १२.२८ ॥
तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः ।
अशुभाशुभशान्तात्मा विदेहोन्मुक्त एव सः ॥ १२.२९॥
बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः ।
प्रपञ्चात्मा परो ह्यात्मा विदेहोन्मुक्त एव सः ॥ १२.३०॥
सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः ।
अन्तरात्मा ह्यनन्तात्मा विदेहोन्मुक्त एव सः ॥ १२.३१॥
अबोधबोधहीनात्मा अजडो जडवर्जितः ।
अतत्त्वातत्त्वसर्वात्मा विदेहोन्मुक्त एव सः ॥ १२.३२॥
असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः ।
अभूतो भूत एवात्मा विदेहोन्मुक्त एव सः ॥ १२.३३॥
चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदम्बरः ।
चिन्मात्ररूप एवात्मा विदेहोन्मुक्त एव सः ॥ १२.३४॥
सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः ।
सच्चिदानन्दपूर्णात्मा विदेहोन्मुक्त एव सः ॥ १२.३५॥
सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः ।
सदाऽखण्डैकरूपात्मा विदेहोन्मुक्त एव सः ॥ १२.३६॥
प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः ।
नित्यज्ञानपरानन्दो विदेहोन्मुक्त एव सः ॥ १२.३७॥
यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न ।
सदात्मा ह्यात्मनि स्वस्थो विदेहोन्मुक्त एव सः ॥ १२.३८॥
यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः ।
योगात्मा योगयुक्तात्मा विदेहोन्मुक्त एव सः ॥ १२.३९॥
चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि ।
गुणागुणविकारान्तो विदेहोन्मुक्त एव सः ॥ १२.४०॥
कालदेशादि नास्त्यन्तो न ग्राह्यो नास्यतिः परः ।
निश्चयं च परित्यक्तो विदेहोन्मुक्त एव सः ॥ १२.४१॥
भूमानन्दापरानन्दो भोगानन्दविवर्जितः ।
साक्षी च साक्षीहीनश्च विदेहोन्मुक्त एव सः ॥ १२.४२॥
सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन ।
आत्मानात्मा चिदात्मा च चिदचिच्छाहमेव च ॥ १२.४३॥
यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।
स्वस्वरूपः स्वयंज्योतिर्विदेहन्मुक्त एव सः ॥ १२.४४॥
वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।
अतीतातीतभावो यो विदेहन्मुक्त एव सः ॥ १२.४५॥
चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।
सर्ववृत्तिविहीनो यो विदेहन्मुक्त एव सः ॥ १२.४६॥
तस्मिन् काले विदेहो यो देहस्मरणवर्जितः ।
न स्थूलो न कृशो वापि विदेहन्मुक्त एव सः ॥ १२.४७॥
ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।
ब्रह्ममात्रेण यस्तिष्ठेत् विदेहन्मुक्त एव सः ॥ १२.४८॥
परं ब्रह्म परानन्दः परमात्मा परात्परः ।
परैरदृष्टबाह्यान्तो विदेहन्मुक्त एव सः ॥ १२.४९॥
शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।
तद्भेदमपि यस्त्यक्तो विदेहन्मुक्त एव सः ॥ १२.५०॥
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।
ब्रह्मामृतरसे मग्नो विदेहन्मुक्त एव सः ॥ १२.५१॥
ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयं ।
ब्रह्मामृतरसे तृप्तो विदेहन्मुक्त एव सः ॥ १२.५२॥
ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।
ब्रह्मानन्दपरंज्योतिर्विदेहन्मुक्त एव सः ॥ १२.५३॥
ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।
ब्रह्मानन्दः सदानन्दो विदेहन्मुक्त एव सः ॥ १२.५४॥
ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।
ब्रह्मानन्दरसप्रीतो विदेहन्मुक्त एव सः ॥ १२.५५॥
ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।
ब्रह्मानन्दजनैर्युक्तो विदेहन्मुक्त एव सः ॥ १२.५६॥
ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।
ब्रह्मामृतजपो यस्य विदेहन्मुक्त एव सः ॥ १२.५७॥
ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।
ब्रह्मामृतमयी विद्या विदेहन्मुक्त एव सः ॥ १२.५८॥