ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 66, कुल 249 में से
संदर्भ में पढ़ेंअहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११.५९॥
ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः ।
स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११.६०॥
स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः ।
स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११.६१॥
स्वात्मानन्दं स्वयं भुङ्क्त्वे स्वात्मराज्ये स्वयं वसे ।
स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६२॥
स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः ।
स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६३॥
जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ ११.६४॥
ये वेदवादविधिकल्पितभेदबुद्ध्या
पुण्याभिसन्धितधिया परिकर्मयन्तः ।
देहं स्वकीयमतिदुःखपरं पराभि-
स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥
कः सन्तरेत भवसागरमेतदुद्य-
त्तरङ्गसदृशं जनिमृत्यु रूपम् ।
ईशार्चनाविधिसुबोधितभेदहीन-
ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम
एकादशोऽध्यायः ॥