सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 79, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 79

असदेवाहमेवास्मि असदेव त्वमेव हि ।
असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ 14.29॥

असदेव मही सर्वा असदेव जलं सदा ।
असदेव जगत्थानि असदेव च तेजकम् ॥ 14.30॥

असदेव सदा वायुरसदेवदमित्यपि ।
अहंकारमसद्बुद्धिर्ब्ह्येव जगतां गणः ॥ 14.31॥

असदेव सदा चित्तमात्मैवेदं न संशयः ।
असदेवासुराः सर्वे असदेवेश्वराकृतिः ॥ 14.32॥

असदेव सदा विश्वं असदेव सदा हरिः ।
असदेव सदा ब्रह्मो तत्सृष्टिरसदेव हि ॥ 14.33॥

असदेव महादेवः असदेव गणेश्वरः ।
असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ 14.34॥

असदेव सदा जीव असदेव हि देहकं ।
असदेव सदा वेदा असद्वेदान्तमेव च ॥ 14.35॥

धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः ।
असदेव हि सर्वं च असदेव परंपरा ॥ 14.36॥

असदेवेदमाद्यन्तमसदेव मुनीश्वराः ।
असदेव सदा लोका लोक्या अप्यसदेव हि ॥ 14.37॥

असदेव सुखं दुःखं असदेव जयाजयौ ।
असदेव परं बन्धमसन्मुक्तिरपि ध्रुवं ॥ 14.38॥

असदेव मृतिर्जन्म असदेव जडाजडं ।
असदेव जगत् सर्वमसदेवात्मभावना ॥ 14.39॥

असदेव च रूपाणि असदेव पदं शुभं ।
असदेव सदा चाहमसदेव त्वमेव हि ॥ 14.40॥

असदेव हि सर्वत्र असदेव चलाचलं ।
असच्च सकलं भूतमसत्यं सकलं फलं ॥ 14.41॥

असत्यमखिलं विश्वमसत्यमखिलो गुणः ।
असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ 14.42॥

असत्यमखिलं पापं असत्यं श्रवणत्रयं ।
असत्यं च सजातीयविजातीयमसत् सदा ॥ 14.43॥