सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 78, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 78

अहमेव हि शान्तात्मा अहमेव हि शाश्वतः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.14॥

अहमेव हि सर्वत्र अहमेव हि सुस्थिरः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.15॥

अहमेव हि जीवात्मा अहमेव परात्परः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.16॥

अहमेव हि वाक्यार्थो अहमेव हि शंकरः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.17॥

अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.18॥

अहमेवाहमेवाहं अहमेव स्वयं स्वयं ।
अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ 14.19॥

अहमेव हि शुद्धात्मा अहमेव हि सन्मयः ।
अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ 14.20॥

अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ 14.21॥

अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः ।
अन्यन्न किंचित् चिद्रूपादाहं बाह्यविवर्जितः ॥ 14.22॥

अहं न किंचिद् ब्रह्मात्मा अहं नान्यदहं परं ।
नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरंजनः ॥ 14.23॥

आनन्दं परमानन्दमन्यत् किंचिन्न किंचन ।
नास्ति किंचिन्नास्ति किंचित् नास्ति किंचित् परात्परात् ॥ 14.24॥

आत्मैवेदं जगत् सर्वमात्मैवेदं मनोभवं ।
आत्मैवेदं सुखं सर्वं आत्मैवेदमइदं जगत् ॥ 14.25॥

ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.26॥

दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा ।
ब्रह्मैव सर्वसंकल्पो ब्रह्मैव न परं क्वचित् ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.27॥

ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् ।
असदेव जगत्सर्वं असदेव प्रपंचकं ॥ 14.28॥