सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 108, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 108

अहमेव परं ब्रह्म अहमेव परात्परः ।
अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४॥

अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः ।
आनन्दोऽहं निराधारो ब्रह्मैव न च किंचन ॥ २०.४५॥

नान्यत् किंचिदहं ब्रह्म नान्यत् किंचिच्चिदव्ययः ।
आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६॥

आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलं ।
आत्मन्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥ २०.४७॥

आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे ।
आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्वचित् ॥ २०.४८॥

अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशं ।
अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९॥

आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयं ।
अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५०॥

जीवभावं सदाऽसत्यं शिवसद्भावमीदृशं ।
विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१॥

अहमेव सदा पूर्णं अहमेव निरन्तरं ।
नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२॥

अहमेव परानन्द अहमेव क्षणान्तिकः ।
अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३॥

वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितं ।
अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४॥

अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः ।
इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५॥

इदं सुखमहं ब्रह्म इदं सुखमहं जडं ।
इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥ २०.५६॥

इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभं ।
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ २०.५७॥

शान्तिदान्तिपरमा भवतान्ताः
स्वान्तभान्तमनिशं शशिकान्तं ।