ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 107, कुल 249 में से
संदर्भ में पढ़ेंस्वयमेव परं ब्रह्म स्वयं केवलमव्ययः ।
स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९॥
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ।
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३०॥
स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः ।
स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ॥ २०.३१॥
अखण्डः परिपूर्णोऽहमखण्डरसपूरणः ।
अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२॥
इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयं ।
अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३॥
अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः ।
ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०.३४॥
ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः ।
ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०.३५॥
ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परं ।
ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०.३६॥
ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि ।
ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महोदयः ॥ २०.३७॥
ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।
ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत् स्वयं ॥ २०.३८॥
ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः ।
ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०.३९॥
ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत् स्वयं ।
ब्रह्मैवोंकारवत् सर्वं ब्रह्मैवोंकाररूपवत् ॥ २०.४०॥
ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयं ।
सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०.४१॥
ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन ।
सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०.४२॥
ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा ।
ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥ २०.४३॥