रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 86, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः 41
( इति परिक्रामतः )
विदूषकः—( अग्रतोऽवलोक्य ) एदं^१ मकरंदुज्जाणं, ता एहि
पबिसह्म । (ग)
( इति प्रविशतः )
विदूषकः—(अवलोक्य सविस्मयम्) भो महाराज^२ ! पेक्ख पेक्ख
दाव एदं क्खु मलयमारुदंदोलिद^३-मउलन्त^४सहआरमञ्जरी-
रेणुपडलपडिवद्धपडविभाणं मत्तमहुअरमुक्कझङ्कारमिलिट-
कोइला^५लावसंगोदसुहावहं तुह्मागमणदंसिआदरं विअ मअर'-
दुज्जाणं लक्खीअदि । ता पबिसदु भवं । (घ)
राजा—(समन्तादवलोक्य) अहो मकरन्दोद्यानस्य परा श्री:^६ !
इह हि—
उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो
भृङ्गालीविरुतैः कलैरविशदव्याहारलीलाभृतः ।
घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहु-
र्भ्रान्तिं^७प्राप्यमधुप्रसङ्ग^८जनितां मत्ता इवामी द्रुमाः ॥२७॥
(क) यद् भर्त्ता आज्ञापयति ।
(ख) एतु एतु भर्त्ता ।
(ग) एतत् मकरन्दोद्यानं ; तदेहि प्रविशावः ।
(घ) भो महाराज ! प्रेक्षस्व प्रेक्षस्व तावदेतत् खलु मलयमारुतान्दोलितमुकुलायमान-
सहकारमञ्जरीरेणुपटलप्रतिबद्धपटवितानं मत्तमधुकर-मुक्तझङ्कार-मिलित-कोकिलालाप-
सङ्गीतसुखावहं तवागमनदर्शितादरमिव मकरन्दोद्यानं लक्ष्यते । तत् प्रविशतु भवान् ।
- भो एदं । 2. वयस्य । 3. मारुद'दोलण' । 4. पफुल्लन्त । 5. कोइलाव ।
- रम्यता । 7. भ्रान्ति । 8. मधुप्रसङ्गमधुना ।