रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 65, कुल 520 में से
संदर्भ में पढ़ें20 रत्नावली
the chief Queen respectfully. And I understand that the
chamberlain Babhravya being reascued from the sea with
great difficulty along with Vasubhuti the minister of the king of
Simhala, has been united with Rumanvan who was marching
with a view to destroying the Koshala kingdom. So, though the
business of my master is almost finished, yet it cannot bring me
satisfaction—which shows that servitude is surely a painful
thing. For—
प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ
दैवेनेत्थं दत्तहस्तावलम्बे ।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि
स्वेच्छाचारी भीत एवास्मि भर्तुः ॥७॥
स्वामिनः प्रभोः उदयनस्य वृद्धिहेतौ रत्नावलीपरिणयेन चक्रवर्त्तित्वप्राप्तिरूपमभ्युदयम्
आवहति यस्मिन् प्रारम्भे कार्य्ये इत्थं रत्नावल्याः दैववशात् फलकासादनादिरूपेण प्रकारेण
दैवेन दत्तहस्तावलम्बे दत्तः हस्तस्य अवलम्बः आश्रयः यस्मिन् सहायीभूते इत्यर्थः । सिद्धेः
कर्मसाफल्यस्य । सिद्धे इति पाठे सिद्धादेशे इत्यर्थः । भ्रान्तिः सन्देहः नास्ति इति सत्यं ;
तथापि एवं दैवानुकूल्यसत्त्वे ऽपि स्वेच्छाचारी राज्ञः अनुमतिमन्तरेण कर्म कुर्व्वन् भर्तुः भीतः
अस्मि । तस्य हितार्थं क्रियमाणेऽपि अस्मिन् कर्म्मणि तस्य राज्ञः अनुमोदनं स्याद् वा न वा इति
भिया मे मनः चाञ्चल्यमवाप्नोति । सर्व्वथा भृत्यस्य स्वातन्त्र्याभावादित्यर्थः । शालिनी
वृत्तम् । तल्लक्षणं—“मात्तौ गौ चेच्छालिनी वेदलोकैः” ॥ ७ ॥
Prose. दैवेन इत्थं दत्तहस्तावलम्बे स्वामिनः वृद्धिहेतौ अस्मिन् प्रारम्भे सिद्धेः
भ्रान्तिः नास्ति ( इति ) सत्यम्, तथापि स्वेच्छाचारी ( अहम् ) भर्तुः भीत एव
अस्मि । ॥ ७ ॥
প্রভুর অভ্যুদয়ের কারণীভূত এইরূপ কার্য্যে দৈব সহায় হওয়ায় কার্য্যের সাফল্য বিষয়ে
আর কোনও সন্দেহ নাই সত্য ; কিন্তু তথাপি স্বতঃপ্রবৃত্ত হওয়ায় আমি প্রভুকে ভয়
পাইতেছি ॥৭॥