रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 63, कुल 520 में से
संदर्भ में पढ़ेंअथ
प्रथमोऽङ्कः
( ततः प्रविशति यथानिर्दिष्टः यौगन्धरायणः )
यौगन्धरायणः—एवमेतत् कः सन्देहः । ( 'दीपात्' इति पुनः
पठित्वा ) अन्यथा क्व सिद्धादेशप्रत्यय¹प्रार्थितायाः सिंहलेश्वर-
दुहितुः² समुद्रे प्रवहणभङ्गनिमग्नायाः³ फलकासादनम् । क्व
च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः
सम्भावनम् । रत्नमालाचिह्नायाः प्रत्यभिज्ञानादिहानयनं
च । ( सहर्षम् ) सर्व्वथा स्पृशन्ति नः स्वामिनमभ्युदयाः ।
( विचिन्त्य ) मयापि चैनां देवीहस्ते सगौरवं निक्षिपता⁴ युक्त-
मेवानुष्ठितम् । श्रुतं च मया बाभ्रव्योऽपि कञ्चुकी सिंहले-
श्वरामात्येन वसुभूतिना सह कथं कथमपि समुद्रादुत्तीर्य
कोशलोच्छित्तये गतवता रुमण्वता मिलित इति । तदेवं
निष्पन्नप्रायमपि प्रभुप्रयोजनं न मे धृतिमावहतीति कष्टोऽयं
खलु भृत्यभावः । कुतः—
प्रस्तावनान्ते पात्रं प्रविशति ततः इति । यौगन्धरायणः । सिद्धादेशप्रत्ययप्रार्थितायाः सिद्धस्य
अणिमादिसिद्धि निष्पन्नस्य चादेशः । य एव रत्नावलीं परिणेष्यति स सार्व्वभौमः नरपतिः
भविष्यतीति चादेशः । तस्मिन् प्रत्ययः विश्वासः तेन प्रार्थितायाः याचितायाः सिंहलेश्वरदुहितुः
विशेषणम् । प्रवहणभङ्गनिमग्नायाः प्रवहणं पोतः “पोतः शिशौ प्रवहणे” । तस्य भङ्गः
तेन निमग्नायाः रत्नावल्याः इत्यर्थः । फलकासादनम् काष्ठफलकप्राप्तिः । तदवस्थायाः
1 सिद्धादेशजनित । 2 सुतायाः । 3 यानभङ्गमग्नावस्थितायाः । 4 समर्पयता ।