रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 61, कुल 520 में से
संदर्भ में पढ़ें16 रत्नावली
सूत्रधारः—( आकर्ण्य सहर्षम् ) आर्ये¹, नन्वयं मम यवीयान्
भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव। तदेहि।
आवामपि नेपथ्यग्रहणाय सज्जीभवावः।
( इति निष्क्रान्तौ )
इति प्रस्तावना
सूत्रधारः । अन्यस्माद् अपि द्वीपात् सिंहलद्वीपाद् इति उपक्षेपः। जलनिधेः समुद्रस्य
मध्यात् दिशोऽपि अन्तात् । अभिमुखीभूतः अनुकूलः विधिः दैवम् अभिमतम् इष्टजनम्
आनीय झटिति शीघ्रं घटयति मेलयति । आर्याऽच्छन्दमिदम् । तल्लक्षणं—"यस्याः पादे
प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या" ॥६॥
अत्र मुखसन्धेः उपक्षेपो नामाङ्गम् ।
भरतपुत्र, भरतस्य नाट्यशास्त्रकारत्वात् सर्वेषामभिनेतृणां तस्य पुत्रस्थानीयत्वम्
इति ज्ञेयम् । गृहीतयौगन्धरायणभूमिकः, यौगन्धरायणस्य भूमिका वेषः ;
“भूमिका रचनायां स्यात् वेशान्तरपरिग्रहे” इति मेदिनी । गृहीता यौगन्धरायणस्य भूमिका
येन सः । इति निष्क्रान्तौ इति । निष्क्रान्तौ निर्गतौ । तदुक्तं “एषामन्यतमेनार्थं
पात्रं वाक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत्” इति ॥ इति प्रस्तावना ।'
प्रस्तूयते काव्यार्थः अनया सा प्रस्तावना ।
तल्लक्षणम् :—“नटो विदूषको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्व्वते ॥
चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥”
अत्र कथोद्घातरूपा प्रस्तावना । अन्यद् विश्लेषणं तु छात्रसटीकायां द्रष्टव्यम् ।
Prose. अन्यस्मादपि द्वीपात्, जलनिधेः अपि मध्यात्, दिशः अपि अन्तात्
अभिमतम् आनीय अभिमुखीभूतः विधिः झटिति घटयति ॥६॥
Beng. Trans. सूत्रधार—আর্য্যে, দূরস্থ বলিয়া উদ্বেগের কোনও কারণ নাই।
দেখ—
1 आर्ये किमतः परं विलम्बसे ।