रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 420, कुल 520 में से
संदर्भ में पढ़ें: चतुर्थोऽङ्कः 375
भणिअ अमच्चजोगंधरायणेण मम हत्थे निक्खित्ता। अदो
ज्जेब्ब साअरिआत्ति सद्दाईअदि । (क)
राजा—(स्वगतम् ) कथं यौगन्धरायणेन न्यस्ता ! कथमसौ
मामनिवेद्य किञ्चित् करिष्यति !
वसुभूतिः—( अपवार्य ) बाभ्रव्य ! यथा सुसदृशो वसन्तकस्य
कण्ठे रत्नमाला अस्या अपि सागरात् प्राप्तिः तथा व्यक्तं सिंहले-
श्वरस्य दुहिता रत्नावलीयम् । ( इत्युपसृत्य—प्रकाशम् )
आयुष्मति ! रत्नावलि ! राजपुत्रि ! त्वमीदृशीमवस्थां गतासि¹ !.
सागरिका—(वसुभूतिं दृष्ट्वा सास्रम्²) कहं अमच्चो बसुभूदी ! (ख)
वसुभूतिः—हा हतोऽस्मि मन्दभाग्यः ! ( इति भूमौ पतति )
सागरिका—हा हदह्नि मंदभाइणी ! हा ताद ! हा
अम्ब ! कहिं सि ? देहि मे पडिवअणं । ( इत्यात्मानं पातयन्ती
मोहमुपगता³) (ग)
वासवदत्ता—( ससम्भ्रमम् ) कंचुइ ! इयं सा मम बहिणिआ
रअणावली । (घ)
बाभ्रव्यः—देवि ! इयमेव सा ।
(क) अमात्य, एसा खलु सागरात् प्राप्तेति भणित्वा अमात्ययौगन्धरायणेन मम
हस्ते निक्षिप्ता । अतएव सागरिकेति शब्द्यते ।
(ख) कथममात्यो वसुभूतिः !
(ग) हा हतास्मि मन्दभागिनी ! हा तात ! हा अम्ब ! क्वासि ? देहि मे
प्रतिवचनम् । (घ) कञ्चुकिन् ! इयं सा मम भगिनी रत्नावली ?
- आयुष्मति, न खलु राजपुत्री रत्नावली त्वमिनामवस्थामुपगता ! 2. विलोक्य ।
- इति वसुभूतेरुपरि पतन्ती मोहमुपगता ।