रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 416, कुल 520 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः 371
राजा— वसुभूतिरयं—
वसुभूतिः—देव ! दिष्ट्या वर्द्धसे !
राजा— वयस्य !—
विदूषकः—जेदु जेदु भवं । (क)
राजा—(विचिन्त्य सवितर्कम्) स्वप्ने मतिर्भ्रमति किं न्विद-
मिन्द्रजालम् ॥१८॥
विदूषकः—भो ! मा संदे हं करेहि । इंदजालं ज्जेव्व
एदं । भणिदं तेन दासीए पुत्तेण इंदआलिएण जहा अवस्सं
ज्जेव्व मम एक्को खेलणओ देवेण पेक्खिदव्वोत्ति । ता तं ज्जेव्व
एदं । (ख)
(क) जयतु जयतु भवान् ।
(ख) भो मा सन्देहं कुरु । इन्द्रजालम् एव एतत् । भणितं तेन दास्याः पुत्रकेण
ऐन्द्रजालिकेन यथा अवश्यमेव मम एकः खेलनकः देवेन प्रेक्षितव्यः इति । तत् तदेवैतत् ।
जीविताशा प्रियतमस्य राज्ञः दर्शनेनेत्यर्थः । मुहूर्त्तमिति । अंशुकं वस्त्रम् ।
निगड़संयतासि शृङ्खलितासि ॥१७॥ व्यक्तमिति । लग्नः अपि हुताशनः वह्निः भवतीं न
धक्ष्यति दग्धां करिष्यति । यतः यस्मात् ते तव अयं स्पर्शः सन्तापं हरते । तव स्पर्शस्य
शीतलत्वात् अग्नेः ते देहं दग्धुं न क्षमत्वम् । अग्नेः दाहकत्वं तव शीतलस्पर्शेन
ह्रियते । अग्नेरपि सन्तापम् अतिशयितस्य विरहतापस्य शैत्यमापादयितुं ते स्पर्शः
यदा क्षमः, तदा अग्निः तव देहं दग्धुं सर्व्वथा न क्षम इति भावः ॥१८॥ क्वासाविति ।
तदवस्थम् सा एव अवस्था यस्य तत् पूर्ववत् अदग्धम् अन्तःपुरम् इति शेषः ।
अग्निपरीतत्वेऽपि अन्तःपुरस्य न किञ्चित् वैपरीत्यम् इति भावः । उच्छ्वसिताः
जीविताः ॥१९॥
- देव ! इदानीं प्रत्याज्जीविताः खः ।
- विजयतां महाराजः ।