रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 415, कुल 520 में से
संदर्भ में पढ़ें370 रत्नावली
राजा—भीरु ! अलं भयेन—
मुहूर्त्तमपि सह्यतां बहुल एष धूमोद्गमो
( अग्रतोऽवलोक्य )
अहह ? धिगिदमंशुकं ज्वलति ते स्तनात् प्रच्युतम् ।
( विलोक्य )
मुहुः स्खलसि किं ?—कथं निगड़संयतासि ! द्रुतं
( परिकरं बद्धा )
नयामि भवतीमितः प्रियतमेऽवलम्बस्व माम् ॥१७॥
( कण्ठे गृहीत्वा निमीलिताक्षः स्पर्शसुखं नाटयन् ) अहो ! क्षणादप-
गतोऽयं मे सन्तापः । प्रिये ! समाश्वसिहि समाश्वसिहि—
व्यक्तं लग्नोऽपि भवतीं न धक्ष्यति हुताशनः ।
यतः सन्तापमेवायं स्पर्शस्ते हरति प्रिये ॥१८॥
( अक्षिणी समुन्मील्य निरीक्ष्य च ) अहो ! महदाश्चर्य्यम् !
क्वासौ गतो हुतवहस्तदवस्थमेत-
दन्तःपुरं ( वासवदत्तां दृष्ट्वा ) कथमवन्तिनृपात्मजेयम् !
वासवदत्ता—(राज्ञः शरीरं परामृशन्ती सहर्षम् ) दिट्ठिआ अक्खद-
शरीरो अज्जउत्तो ! (क)
राजा—