रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 401, कुल 520 में से
संदर्भ में पढ़ें356 रत्नावलो
राजा—आर्य्य वसुभूते ! अपि कुशलं तत्रभवतः सिंहले-
श्वरस्य ?
वसुभूतिः—( उर्ध्वमवलोक्य निःश्वस्य च ) देव ! न जाने किं विज्ञा-
पयामि मन्दभाग्यः ! ( अधोमुखस्तिष्ठति )
वासवदत्ता—( सविषादमात्मगतम् ) हद्धी हद्धी ! किं दाणिं वसु-
भूदी कधइस्सिदि ! (क)
राजा—वसुभूते ! कथय । किमेवं मां पर्याकुलयसि¹ !
बाभ्रव्यः—(अपवार्य चिरमपि स्थित्वा) यत् कथनीयं तदिदानी-
मेव कथ्यताम्² ।
वसुभूतिः—( सास्रम् ) देव ! न शक्यं निवेदयितुम् । तथा-
प्येष कथयामि मन्दभाग्यः । यासौ तत्रभवतः सिंहलेश्वरस्य
दुहिता रत्नावली नामायुष्मती सिद्धादेशेनादिष्टा योऽस्याः पाणि-
ग्रहणं करिष्यति स सार्वभौमो राजा भविष्यतीति³ ।—
राजा—ततस्ततः—
वसुभूतिः—तत्प्रत्ययादार्य्यार्थं यौगन्धरायणेन बहुशः
प्रार्थ्यमानापि सा सिंहलेश्वरेण वासवदत्तायाश्चित्तखेदं परि-
हरता न दत्ता⁴ ।
राजा—(अपवार्य) देवि ! किमिदानीमलीकं त्वदीयमातुला-
मात्यः कथयति !
(क) हा धिक्, हा धिक् ! किमिदानीं वसुभूतिः कथयिष्यति !
- आर्य्य, आकुल इव मेऽन्तरात्मा । वसुभुते ! कथं पर्याकुल इवासि ? (कथं
पर्याकुलयसि ? ) 2. अमात्य, चिरमपि स्थित्वा कथनीयम् । 3. यासौ सिंहलेश्वरेण
स्वदुहिता रत्नावली नाम चायुष्मती वासवदत्तां दग्धाम् उपश्रुत्य देवाय पूर्व्वं प्रार्थिता
सती दत्ता । 4. पुस्तकान्तरे नास्ति ।