रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished520 पृष्ठ
पृष्ठ 400, कुल 520 में से
संदर्भ में पढ़ेंपृष्ठ 400चतुर्थोऽङ्कः 355
चतुर्थोऽङ्कः 355
बाभ्रव्यः—अमात्य ! अस्ति सादृश्यम् । तत् किं वसन्तकं
पृच्छामि प्राप्तिमस्याः ?
वसुभूतिः—बाभ्रव्य ! मा मैवम् । महति राजकुले रत्न-
बाहुल्याद्¹ दुर्लभो भूषणानां संवादः ।
विदूषकः—भो ! एसो महाराओ । ता उबसप्पदु
अमच्चो । (क)
वसुभूतिः—( उपसृत्य ) विजयतां महाराजः !
राजा—( उत्थाय ) ²अभिवादये ।
वसुभूतिः—अतिश्रेयांस्त्वं भूयाः³ ।
राजा—आसनमासनमार्य्याय ।
विदूषकः—( आसनमादाय ) भो ! एदं आसणं । उबबिसदु
अमच्चो । (ख)
( वसुभूतिरुपविशति )
बाभ्रव्यः—देव ! बाभ्रव्यः प्रणमति ।
राजा—( पृष्ठे हस्तं दत्त्वा ) बाभ्रव्य ! इत आस्थताम् ।
विदूषकः—अमच्च ! एसा देवी बासबदत्ता पणमदि । (ग)
वासवदत्ता—अज्ज ! पणमामि । (घ)
वसुभूति—आयुष्मति ! वत्सराजसदृशं पुत्रमाप्नुहि ।
बाभ्रव्यः—देवि ! बाभ्रव्यः प्रणमति ।
( सर्वे उपविशन्ति )
(क) भोः, एष महाराजः । तद् उपसर्पतु अमात्यः । (ख) एतदासनम् ।
उपविशतु अमात्यः । (ग) अमात्य, एषा देवी वासवदत्ता प्रणमति । (घ) आर्य,
प्रणमामि ।
- रत्नमालाबाहुल्यात् । 2. आर्य, अभिवादये । 3. आयुष्मान् भव ।